________________
जनक उवाच।
अहो जनसमूहेऽपि न द्वैतं पश्यतो मम। अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम्॥४१॥ नाहं देहो न मे देहो जीवो नाहमहं हि चित्। अयमेव हि मे बंध आसीधा जीविते स्पृहा।।४२।। अहो भुवन कल्लोलैर्विचित्रैद्रकि समुत्थितम्। मयनंतमहाम्भोधौ चित्तवाते समुद्यते।।४३।। मयनंतमहाम्भोधौ चित्तवाते प्रशाम्यति। अभाग्याजीववणिजो जगतपोतो विनश्वरः।।४४।। मयनंतमहाम्भोधावाश्चर्यं जीववीचयः। उद्यन्ति ध्वन्ति खेलन्ति प्रविशन्ति स्वभावतः।।४५।।