________________
WAT
जनक उवाच।
प्रकाशो में निजं रूपं नातिरिक्तोऽस्म्यहं ततः। यदा प्रकाशते विश्वं तदाऽहंभास एव हि।।२८॥ अहो विकल्पितं विश्वमज्ञानान्मयि भासते। रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा।।२९।। मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति। मृदि कुम्भो जले वीचिः कनके कटकं यथा।।३०।। अहो अहं नमो मह्यं विनाशो यस्य नास्ति में। ब्रह्मादिस्तम्बपर्यन्तं जगन्नाशेऽपि तिष्ठतः।।३१।। अहो अहं नमो मह्यमेकोऽहं देहवानपि। क्वचिन्नगन्ता नागन्ता व्याप्त विश्वम्वास्थितः।।३२।। अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः। असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम्।।३३।। अहो अहं नमो मह्यं यस्य मे नास्ति किंचन। अथवा यस्य में सर्वं यब्दाङमनसगोचरम्।।३४।।