________________
जनक उवाच।
अहो निरंजनः शांतो बोधोऽहं प्रकृतेः परः। एतावंतमहं कालं मोहेनैव विडंबितः।।२१।। यथा प्रकाशाम्येको देहमेनं तथा जगत्। अतो मम जगत्सर्वमथवा न च किंचन।।२२।। सशरीरमहो विश्वं परित्यज्य मयाऽऽधुना! कुतश्चित् कौशलादेव परमात्मा विलोक्यते।।२३।। यथा न तोयतो भिन्नस्तरंगाः फेनबुबुदाः। आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम्।।२४॥ तंतुमात्रो भवेदेव पटो यद्वद्विचारतः। आत्मतन्मात्रमेवेदं तद्वद्विश्वं विचारितम्।।२५।। यथैवेक्षुरसे क्लृप्ता तेन व्याप्तेव शर्करा। तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरंतरम्।।२६।। आत्माऽज्ज्ञानाज्जगद्भाति आत्मज्ञानान्नभासते रज्ज्वज्ञानादहि ति तज्ज्ञानाद्भासते न हि।।२७।।