SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ मरुधरीयबेडाऽऽख्य-ग्रामनिवासकारकः । प्राग्वाटवंशसत्कश्री-विशालगोत्रधारकः ॥ ३४ ॥ परमारोपसंज्ञाऽऽढ्यः, श्राद्धः सरेमलाभिधः । भार्याश्रीविमलादेव्या, सह यद्भावमातनोत् ॥ ३५ ॥ सोऽयं जिनालयस्येह, निर्मापणमनोरथः । सत्पुत्रैः पूरितः सम्यग्, भक्तानामीदृशी स्थितिः ॥ ३६ ॥ सत्पुत्रो बाबुलालाऽऽख्यो, भरतश्चारविन्दकः । रतनदेव्युषा चापि, सङ्गीता पुत्रयोषितः ॥ ३७ ॥ पौत्रादिकलितैरेतैः, स्वद्रव्यपरिनिर्मितम् । चैत्यं विजयतादेतन्, निर्मितम् विश्वमङ्गलम् ॥३८ ॥ यावत् सूर्यो विधुर्यावद्, यावदेषा वसुन्धरा । प्रतिष्ठा नन्दतादेषा, तावत् कल्याणकारिका ॥ ३९ ॥ मङ्गलं भगवान् वीरो, मङ्गलं गौतमप्रभुः । मङ्गलं स्थूलभद्राद्या, जैनो धर्मोऽस्तु मङ्गलम् ॥ ४० ॥ इति श्रीराजनगरीय-शाहीबागस्थानस्थितप्लेटिनमहाइट्सजननिवाससङ्कुलविभूषणश्राद्धवर्य सरेमल-जवेरचन्द-बेडावाला-परिवार स्वद्रव्यनिर्मित-श्रीपार्श्वप्रासादमण्डनश्रीशङ्केश्वरपार्श्वनाथप्रभृतिजिनप्रतिमादिसत्कगतिमुनिगगननयन( २०७४ )वैक्रमवत्सरीयफाल्गुनसितदशमीदिनविहितसत्प्रतिष्ठाप्रशस्तिः । शुभं भवतु श्रीसङ्घस्य । भाष्यत्रयम
SR No.032108
Book TitleBhashya Trayam
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherAshapuran Parshwanath Jain Gyanbhandar
Publication Year2018
Total Pages66
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy