SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ [सू० १५२] औदारिकादिशरीरवर्णनम् । सरीरोगाहणा पण्णत्ता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं, आयामेणं जहन्नेणं अहे जाव विज्जाहरसेढीओ, उक्कोसेणं अहे जाव अहोलोइया गामा, उट्टं जाव सयाई विमाणाई, तिरियं जाव मणुस्सखेत्तं, एवं जाव अणुत्तरोववाइया वि । एवं कम्मयसरीरं पि भाणियव्वं । [टी] अनन्तरं नारकादिजीवानां स्थितिरुक्ता, इदानीं तच्छरीराणामवगाहना- 5 प्रतिपादनायाह – कइ णं भंते इत्यादि कण्ठ्यम्, नवरमेकेन्द्रियौदारिकशरीरमित्यादौ यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणि पृथिव्याद्येकेन्द्रिय जलचरादिपञ्चेन्द्रियभेदेन प्रागुपदर्शितजीवराशिक्रमेण वाच्यानि कियद्दूरमित्याहगब्भवक्कंतियेत्यादि । ओरालियसरीरस्सेत्यादि, तत्रोदारं प्रधानं तीर्थकरादिशरीराणि प्रतीत्य अथवोरालं विशालं समधिकयोजनसहस्रप्रमाणत्वात् वनस्पत्यादि प्रतीत्य अथवा 10 उरलं स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवदिति, अथवा मांसास्थिस्नायुबद्धं यच्छरीरं तत् समयपरिभाषया ओरालमिति, तच्च तच्छरीरं चेति प्राकृतत्वादौ (दो) रॉलियशरीरम्, तस्य, अवगाहन्ते यस्यां साऽवगाहना आधारभूतं क्षेत्रम्, शरीराणामवगाहना शरीरावगाहना, अथवौदारिकशरीरस्य जीवस्य औदारिकशरीररूपावगाहना शरीरावगाहना सा भदन्त ! केमहालिया किम्महती प्रज्ञप्ता ?, तत्र 15 जघन्येनाङ्गुलासंख्येयभागं यावत् पृथिव्याद्यपेक्षया, उत्कर्षेण सातिरेकं योजनसहस्रमिति बादरवनस्पत्यपेक्षयेति । एवं जाव मणुस्से त्ति, इह एवं यावत्करणादवगाहनासंस्थानाभिधानप्रज्ञापनैकविंशतितमपदाभिहितग्रन्थोऽर्थतोऽयमनुसरणीयः, तथाहि - एकेन्द्रियौदारिकस्य पृच्छा निर्वचनं च तदेव, तथा पृथिव्यादीनां चतुर्णां बादर - सूक्ष्मपर्याप्ता - ऽपर्याप्तानां जघन्यत 20 उत्कृष्टतश्चाङ्गुलासंख्येयभागः, वनस्पतीनां बादरपर्याप्तानामुत्कर्षतः साधिकं योजनसहस्रम्, शेषाणां त्वङ्गुलासंख्येयभाग एव, द्वि-त्रि- चतुरिन्द्रियाणां पर्याप्तानां ६ २७१ १. गाहना आह खं० ॥। २. वोरालं विस्तरालं समधि हे२ । ३. ओरालं खं० ॥ ४. भिंडवदिति खं० । भेंडवदित्यादि हे२ ।। ५ °लियं शरीरं खं० ॥। ६. औदारिकशरीरावगाहना खं० ॥ खं० अनुसारेण ओरालियसरीरोगाहणा इति मूलपाठः संभाव्यते ॥ ७ मणुस्सेत्यादि इह खं० ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy