________________
२४५
[सू० १४६ ]
विपाकश्रुतवर्णनम् ।
भय-विषाद-शोक-मिथ्यात्वान्येव शैलाः पर्वतास्तैः सङ्कटः सङ्कीर्णो यः स तथा, ततः कर्म्मधारयोऽतस्तम्, इह च विषादो दैन्यमात्रम्, शोकस्त्वाक्रन्दनादिचिह्न इति, तथा अज्ञानमेव तमोऽन्धकारं महान्धकारं यत्र स तथा, अतस्तम्, चिक्खल्लसुदुत्तारं ति चिक्खल्लं कर्दमः संसारपक्षे तु चिक्खल्लं विषय-धन- स्वजनादिप्रतिबन्धः, तेन सुदुस्तरो दुःखोत्तार्यो यः स तथा, तम्, तथा जरामरणयोनय एव संक्षुभितं 5 महामत्स्य-मकराद्यनेकजलजन्तुजातिसम्मर्देन प्रविलोडितं चक्रवालं जलपारिमाण्डल्यं यत्र स तथा, तम्, तथा षोडश कषाया एव श्वापदानि मकरर-ग्राहादीनि प्रकाण्डचण्डानि अत्यर्थद्राणि यत्र स तथा, तम्, अनादिकमनवदग्रमनन्तं संसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः, यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि 10 ततश्च कालान्तरे च्युतानाम् इहेव त्ति तिर्यग्लोके नरलोकमागतानामायु-र्वपुर्वर्ण-रूप-जाति-कुल- जन्मा -ऽऽरोग्य - बुद्धि-मेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं दीर्घत्वं च, एवं वपुः शरीरं तस्य स्थिरसंहननता, वर्णस्योदारगौरत्वम्, रूपस्यातिसुन्दरता जातेरुत्तमत्वम्, कुलस्याप्येवम्, जन्मनो विशिष्टक्षेत्रकालनिराबाधत्वम्, आरोग्यस्य प्रकर्षः, बुद्धिरौत्पत्तिक्यादिका 15 तस्याः प्रकृष्टता, मेधा अपूर्वश्रुतग्रहणशक्तिः, तस्या विशेष : प्रकृष्टतैवेति, तथा मित्रजनः सुहृल्लोकः, स्वजन: पितृपितृव्यादिः, धनधान्यरूपो यो विभवो लक्ष्मीः स धनधान्यविभवः, तथा समृद्धेः पुरा - ऽन्तःपुर- कोश- कोष्ठागार-बल-वाहनरूपायाः सम्पदो यानि साराणि प्रधानवस्तूनि तेषां यः समुदयः समूहः स तथा इत्येतेषां द्वन्द्वस्तत एषां ये विशेषाः प्रकर्षास्ते तथा, तथा बहुविधकामभोगोद्भवानां सौख्यानां 20 विशेषा इतीहापि सम्बन्धनीयम्, शुभविपाक उत्तमो येषां ते शुभविपाकोत्तमा:, तेषु, जीवेष्विति गम्यम्, इह चेयं षष्ठ्यर्थे सप्तमी, तेन शुभविपाकाध्ययनवाच्यानां साधूनामायुष्कादिविशेषाः शुभविपाकाध्ययनेष्वाख्यायन्ते इति प्रकृतम् ।
अथ प्रत्येकं श्रुतस्कन्धयोरभिधेये पुण्य-पापविपाकरूपे प्रतिपाद्य, तयोरेव यौगपद्येन १. चिखल जे१.२ ॥ २. पुरकोश जे२ विना ||