SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ (सू० १३ समवायाङ्गवर्णनम् । २२१ इत्यादिवदिति, अथवा पल्लवा इव पल्लवा: अवयवास्तत्परिमाणं समणुगाइजइ त्ति समनुगीयते प्रतिपाद्यते । पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह- ठाणगेत्यादि, ठाणगसयस्स त्ति स्थानकशतस्यैकादीनां शतान्तानां संख्यास्थानानाम्, तद्विशेषितात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्याचारादिभेदेन तत् द्वादशविधविस्तरम्, तस्य, श्रुतज्ञानस्य 5 जिनप्रवचनस्य, किंभूतस्य ? जगज्जीवहितस्य, भगवतः श्रुतातिशययुक्तस्य समासेन संक्षेपेण समाचारः प्रतिस्थानं प्रत्यङ्गं च विविधाभिधेयाभिधायकत्वलक्षणो व्यवहार: आहिजइ त्ति आख्यायते । अथ समाचाराभिधानानन्तरं तत्र यदुक्तं तदभिधातुमाहतत्थ येत्यादि, तत्थ य त्ति तत्रैव समवाये इति योगः, नानाविधः प्रकारो येषां ते नानाविधप्रकाराः, तथाहि- एकेन्द्रियादिभेदेन पञ्चप्रकारा जीवाः, पुनरेकैकः प्रकार: 10 पर्याप्ता-ऽपर्याप्तादिभेदेन नानाविधः, जीवाजीवा य त्ति जीवा अजीवाश्च वर्णिता विस्तरेण महता वचनसन्दर्भेण, अपरेऽपि च बहविधा विशेषा जीवाजीवधर्मा वर्णिता इति योगः, तानेव लेशत आह- नरएत्यादि, नरय त्ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः ओजआहारादिराभोगिकानाभोगिकस्वरूपोऽनेकधा, 15 उच्छ्वासोऽनुसमयादिः कालभेदेनानेकधा, लेश्या कृष्णादिका षोढा, आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका, आयतप्रमाणमावासानामेव संख्यातासंख्यातयोजनायामता, उपलक्षणत्वादस्य विष्कम्भ-बाहल्य-परिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावता वा कालव्यवधानेनोत्पत्तिः, च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणम्, अवगाहना 20 शरीरप्रमाणमगुलासंख्येयभागादि, अवधि: अगुलासंख्येयभागक्षेत्रविषयादिः, वेदना शुभाशुभस्वभावा, विधानानि भेदा यथा सप्तविधा नारका इत्यादि, उपयोग: आभिनिबोधिकादिर्कीदशविधः, योग: पञ्चदशविधः, इन्द्रियाणि पञ्च, १. 'इजंति समनुगीयंते प्रतिपाद्यते ख० । 'इजंति समनुगीयते प्रतिपाद्यते जे१ । 'इजत्ति समनुगीयते प्रतिपाद्यते जे२ ।। २. नानाविधः नानाविध: जे२ ॥ ३. नरेत्यादि खंसं० विना ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy