SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे जीवाजीवादिविविधपदार्थसार्थस्य यस्मिन्नसौ समवायः । समवयन्ति वा समवतरन्ति सम्मिलन्ति नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवाय इति । स च प्रवचनपुरुषस्याङ्गमिवाङ्गमिति समवायाङ्गम् । ___ तत्र किल श्री श्रमणमहावीरवर्द्धमानस्वामिसम्बन्धी पञ्चमो गणधर 5 आर्यसुधर्मस्वामी स्वशिष्यं जम्बूनामानम भि समवायाङ्गार्थमभिधित्सुः भगवति धर्माचार्ये बहुमानमाविर्भावयन् स्वकीयवचने च ‘समस्तवस्तुविस्तारस्वभावावभासिकेवलालोककलितमहावीरवचननिश्रिततयाऽविगानेन प्रमाणमिदम्' इति शिष्यस्य मतिमारोपयन्निदमादावेव सम्बन्धसूत्रमाह- सुयं मे इत्यादि । श्रुतम् आकर्णितं मे मया हे आयुष्मन् चिरजीवित ! जम्बूनामन् ! तेणं ति योऽसौ निर्मूलोन्मूलितराग10 -द्वेषादिविषमभावरिपुसैन्यतया भुवनभावावभासनसहसंवेदनपुरस्सराविसंवादिवचनतया च त्रिभुवनभवनप्राङ्गणप्रसपत्सुधाधवलयशोराशिस्तेन महावीरेण भगवता समग्रैश्वर्या दियुक्तेन एवमिति वक्ष्यमाणेन प्रकारेण आख्यातम् अभिहितम् ‘आत्मादिवस्तुतत्त्वम्' इति गम्यते । अथवा आउसंतेणं ति भगवता इत्यस्य विशेषणम्, आयुष्मता चिरजीवितवता भगवतेति । अथवा पाठान्तरेण मया' इत्यस्य विशेषणमिदम्, 15 आवसता मया गुरुकुले, आमृशता वा संस्पृशता मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति । यद्वा आउसंतेणं ति आजुषमाणेन प्रीतिप्रवणमनसेति । यदाख्यातं तदधुनोच्यते- एगे आया इत्यादि । _[सू०१] [२] इह खलु समणेणं भगवता महावीरेणं आदिकरेणं तित्थकरेणं सयंसंबुद्धणं पुरिसोत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा 20 लोगोत्तमेणं लोगनाहेणं लोगहितेणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खुदएणं मग्गदएणं सरणदएणं जीवदएणं धम्मदएणं धम्मदेसएणं धम्मणायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहतवरणाण १. मिह स' जे२ ।। २. शिष्यमतिं चारोप' ख० जे१ ।। ३. चिरजीविना भगवतेति अथवा मयेत्यस्य हे२ ।। ४. 'आवसंतेणं' इति पाठान्तरमत्राभिप्रेतम् ॥ ५. 'आमसंतेणं' इति पाठान्तरमत्राभिप्रेतम् ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy