SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सू० ८९ अष्टाशीति-एकोननवतिस्थानके । १८५ सहस्रविष्कम्भत्वाद् यथोक्तः सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभास-शङ्ख-दकसीमाख्यान् वेलन्धरनागराजनिवासपर्वतानाश्रित्य वाच्यमत एवाह– एवं चउसु वि दिसासु नेयव्वमिति । बाहिराओ णमित्यादि, बाह्याया: सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्या: काष्ठायाः, क्वचित्तु बाहिराओ त्ति न दृश्यते, सूर्यः प्रथमं षण्मासं दक्षिणायनलक्षणं 5 दक्षिणायनादित्वात् संवत्सरस्य, अयमीणे त्ति आयान् आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभागान, दिवसखेत्तस्स त्ति दिवसस्यैव निवुड्ढेत्त त्ति निवर्ध्य हापयित्वा रयणिखेत्तस्स त्ति रजन्यास्तु अभिवयं सूरिए चारं चरइ त्ति भ्राम्यतीति, इह च भावनैवम्- प्रतिमण्डलं दिनस्य मुहूर्तेकषष्टिभागद्वयहानेर्दक्षिणायनापेक्षया चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तु त एव वर्द्धन्त 10 इति, द्विः सूर्यग्रहणं चेह दिनरात्र्याश्रितवाक्यद्वयभेदकल्पनया न पुनरुक्तमवसेयमिति, इदं च सूत्रमष्टसप्ततिस्थानकसूत्रवद् भावनीयमिति । दक्खिणाओ इत्यादिसूत्रं पूर्वसूत्रवदवगन्तव्यम्, नवरमिह दिनवृद्धिः रात्रिहानिश्च भावनीयेति ।।८८।। [सू० ८९] उसभे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए समाए पच्छिमे भागे एकूणणउइए अद्धमासेहिं सेसेहिं कालगते वीतिकंते जाव 15 सव्वदुक्खप्पहीणे । समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थीए समाए पच्छिमे भागे एगूणनउतीए अद्धमासेहिं सेसेहिं कालगते जाव सव्वदुक्खप्पहीणे । हरिसेणे णं राया चाउरंतचक्कवट्टी एगूणनउई वाससयाइं महाराया होत्था। संतिस्स णं अरहतो एगणनउई अज्जासाहस्सीतो उक्कोसिया अज्जासंपदा 20 होत्था । [टी०] अथैकोननवतिस्थानके किञ्चिद्विचार्यते, तइयाए समाए त्ति सुषमादुष्षमाभिधानाया एकोननवत्यामर्द्धमासेषु त्रिषु वर्षेषु अर्द्धनवसु च मासेषु ‘सत्सु' इति गम्यते, जाव त्ति करणात् 'अंतगडे सिद्धे बुद्धे मुत्ते' त्ति दृश्यम् । हरिषेणचक्रवर्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुस्तत्र च शतोनानि नव 25
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy