________________
१६३
[सू० ७१]
एकसप्ततिस्थानकम् ।
आदित्यसंवत्सरे दिनानां शतत्रयं षट्षष्टिश्च भवन्ति, तत्त्रितये च सहस्रमष्टनवत्यधिकं भवति, इह च किल चन्द्रयुगमादित्ययुगं चाषाढ्यामेकं पूर्यतेऽपरं च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षट्पञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीति कृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिषट्के साधिके पूर्यते चन्द्रयुगसंवत्सरत्रयं त्वाषाढ्याम्, ततश्च 5 श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणायनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्यां द्वादशोत्तरशततमे स्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिर्मण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णां हेमन्तमासानां सम्बन्धिषु चरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनान्निवृत्त्योत्तरायणेन चरतीत्यर्थः, 10 उक्तं च ज्योतिष्करण्डके, पञ्चसु युगसंवत्सरेषूत्तरायणतिथयः क्रमेणैवं यदुतबहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए २ ।
बहुलस्स य पाडिवर ३ बहुलस्स य तेरसीदिवसे ४ ।। सुद्धस्स य दसमीए ५ पवत्तए पंचमी उ आउट्टी ।
१. क्रमेणैव जे१.२ हे२ ।। २. “पढमा बहुलपडिवए बिड़या बहुलस्स तेरसीदिवसे । सुद्धस्स य दसमीए बहुलस्सय सत्तमीए उ || २४७ || सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सव्वाओ सावणे मासे || २४८ || टीका - इह सूर्यस्य दशाऽऽवृत्तयो भवन्ति एतच्चानन्तरमेव भावितम् । तत्र पञ्चावृत्तयः श्रावणे मासं पञ्च माघमासे । तत्र याः श्रावणे मासे भवन्ति तासां मध्ये प्रथमा बहुलपक्षे प्रतिपदि १. द्वितीया बहुलस्य बहुलपक्षस्य सम्बन्धिनि त्रयोदशीरूपे दिवसे २, तृतीया शुद्धस्य शुक्लपक्षस्य दशम्याम् ३, चतुर्थी बहुलपक्षस्य सप्तम्याम् ४ शुद्धस्य शुक्लपक्षस्य चतुर्थ्यां प्रवर्त्तते पञ्चमी आवृति: ५ । एताः सर्वा अप्यावृत्तयः श्रावणे मासे वेदितव्याः || २४७-२४८।। साम्प्रतमता आवृत्तयो येन नक्षत्रेण युता भवन्ति तन्नक्षत्रनिरूपणार्थमाह- पढमा होड़ अभिइणा संठाणाहि य तहा विसाहाहिं । रेवतिए उ चउत्थी पुव्वाहिं फग्गुणीहि तहा ॥ २४९ ॥ टीका - श्रावणमासभाविनीनामन्तरोदितस्वरूपाणां पञ्चानामावृत्तीनां मध्ये प्रथमाऽऽवृत्तिरभिजिता नक्षत्रेण युता भवति, द्वितीया संठाणाहिं ति मृगशिरसा तृतीया विशाखाभिः, चतुर्थी रेवत्या, पञ्चमी पूर्वाफाल्गुनीभिः || २४९ || अधुना माघमासे भाविन्य आवृत्तयो यासु तिथिषु भवन्ति ता अभिदधाति बहुलस्स सत्तमीए पढमा सुद्धस्स तो चउत्थीए । बहुलस्स य पाडिवए बहुलस्स य तेरसीदिवसे ||२५|| सुद्धस्स य दसमीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सव्वाओ माघमासम्म ।। २५१ ।। टीका- माघमासे प्रथमाऽऽवृत्तिः बहुलस्य कृष्णपक्षस्य सप्तम्यां भवति १, द्वितीया शुद्धस्य शुक्लपक्षस्य चतुर्थ्याम् २. तृतीया बहुलपक्षस्य प्रतिपदि ३, चतुर्थी बहुलपक्षस्य त्रयोदशीदिवसे ४ पञ्चमी शुक्लपक्षस्य दशम्यां प्रवर्त्तते ५ । एताः सर्वा अप्यावृत्तयो माघमासे भवन्ति ॥ २५० - २५१ ।। " इति ज्योतिष्करण्डकस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥