________________
१५८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
पञ्चपञ्चाशद्योजनसहस्राणि तावदस्ति, ततः परं द्वादशयो जनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति तमधिकृत्य सूत्रार्थः संभवति, पञ्चपञ्चाशतो द्वादशानां च सप्तषष्टित्वभावात्, यद्यपि सूत्रपुस्तकेषु गौतमशब्दो न दृश्यते तथाप्यसौ दृश्यः, जीवाभिगमादिषु लवणसमुद्रे गौतम-चन्द्र-रविद्वीपान् विना 5 द्वीपान्तरस्याश्रूयमाणत्वादिति । सव्वेसि पि णमित्यादि, सर्वेषामपि णमित्यलकारे नक्षत्राणां सीमाविष्कम्भः पूर्वापरतश्चन्द्रस्य नक्षत्रभुक्तिक्षेत्रविस्तार: नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो विभक्तः समांश: समच्छेदः प्रज्ञप्तः, भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदता भवति, भागान्तरण
न भक्तुं शक्यते इत्यर्थः, तथाहि- नक्षत्रेणाहोरात्रगम्यस्य क्षेत्रस्य 10 सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति.
एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः, तथा तस्यामेवैकविंशतौ त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य त्रिंशता गुणितायां ६३० सप्तषष्ट्या हृतभागायां यल्लब्धं तत् कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा च नव मुहूर्ताः सप्तविंशतिश्च
सप्तषष्टिभागा: ९ । आह च15 अभिइस्स चंदजोगो सत्तटिं खंडिए अहोरत्ते ।
भागा उ एक्कवीसं क्षेत्रतः होतऽहिगा नव मुहत्ता य ।। [ज्योतिष्क० १६२] त्ति कालतः । तथा शतभिषग्-भरण्याा -ऽऽश्लेषा-स्वाति-ज्येष्ठानां त्रयस्त्रिंशत् सप्तषष्टिभागास्तद्भागार्द्धं च क्षेत्रसीमाविष्कम्भो भवति, तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिंशता गुणितायां १००५ सप्तषष्ट्या हतभागायां यल्लब्धं तदेषां कालसीमा, तच्च पञ्चदश
१. "अभिजित: अभिजिन्नक्षत्रस्य चन्द्रेण सह योग: सप्तषष्टिखण्डितः सप्तषष्टिप्रविभागीकृतो योऽहोरात्रस्तस्य सत्का ये एकविंशतिर्भागास्तावन्तं कालं भवति, ते चैकविंशतिः सप्तष्टिभागाः परिभाव्यमाना नव मुहर्ताः अधिका: सप्तविंशतिसप्तषष्टिभागाधिका भवन्ति । तथाहि- सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्का ये एकविंशतिर्भागास्ते मुहर्तगतभागकरणार्थं त्रिशता गुण्यन्ते जातानि षट् शतानि त्रिंशदधिकानि ६३०. तषा सप्तषष्ट्या भाग हृत लब्धा नव मुहर्ताः, एकस्य च मुहर्तस्य सप्तविंशतिः सप्तषष्टिभागा इति ।।१६२।।" इति ज्योतिष्करण्डस्य मलयगिरिसूरिविरचितायां वृत्तौ ।। २. होति हिगा ख० जे५ ।।