SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशत्स्थानकम् । मन्त्रानुयोगश्चेटकादिमन्त्रसाधनोपायशास्त्राणि २७, योगानुयोगो वशीकरणादियोगाभिधायिकानि हरमेखलादिशास्त्राणि २८. अन्यतीर्थिकेभ्यः कपिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो विचारः तत्पुरस्करणार्थं शास्त्रसन्दर्भ इत्यर्थः सोऽन्यतीर्थिकप्रवृत्तानुयोग इति २९ । तथाऽऽषाढादय एकान्तरिता षण्मासा एकोनत्रिंशद्रात्रिंदिवानि रात्रिंदिवपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्णपक्षे प्रत्येकं 5 रात्रिंदिवस्यैकस्य क्षयात्. आह च फग्गुण - वडसा आसाढबहुलपक्खे भदृवए कत्तिए य पोसे य । य बोधव्वा ओमरत्ताओ || [ उत्तरा० २६/१५ ] ति । इयमत्र भावना- चन्द्रमासो हि एकोनत्रिंशद् दिनानि दिनस्य च द्विषष्टिभागानां द्वात्रिंशत् ऋतुमासश्च त्रिंशदेव दिनानि भवतीति चन्द्रमासापेक्षया 10 ऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता समधिको भवति, ततश्च प्रत्यहोरात्रं चन्द्रदिन में कैकेन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषष्ट्या चन्द्रदिवसानामेकषष्टिरहोरात्राणां भवतीत्येवं सातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेषस्त्विह चन्द्रप्रज्ञप्तेरवसेय इति । तथा चंददिणे णं ति चन्द्रदिनं प्रतिपदादिका तिथिः, तच्चैकोनत्रिंशद् मुहूर्त्ता: 15 सातिरेका मुहूर्त्तपरिमाणेनेति कथम् ? यतः किल चन्द्रमास एकोनत्रिंशद् दिनानि द्वात्रिंशच्च दिनद्विषष्टिभागा भवन्ति, ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन मुहूर्त्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिंशन्मुहूर्त्ता द्वात्रिंशच्च मुहूर्त्तस्य द्विषष्टिभागा लभ्यन्त इति । [ ० २१ १. "णार्थ: हर ॥। २. रात्रिदिवसपरि खं० । रात्रिंदिवप्रमाणेन हे२ । ३. रात्रिंदिवसस्यै खं० ॥ ४. "आसाढेत्ति आषाढे बहुलपक्षे भाद्रपदादिषु च बहुलपक्षे ओम त्ति अवमा न्यूना एकेनेति शेषः, रत्त त्ति पदैकदेशऽपि पदप्रयोगदर्शनादहोरात्राः एवं चैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः || २६|१५|| इति उत्तराध्ययनसूत्रस्य शान्तिसूरिविरचितायां पाईयटीकायाम् । तथा ओघनियुक्तौ गा० २८५ ।। ५. बोद्धव्वा जि२ । ६ प्रतिषु पाठा:- " रत्ताओ ह१.२ । रणाओ जे१ । "राओ त्ति जेर। रवाओ त्ति खं० ।। ७. भवतीति ह१.२ ॥ ८. चन्द्रप्रजप्ते द्वादशे प्राभृते विशेषजिज्ञासुभिर्विलोकनीयम् ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy