SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उत्तराष्पयनसूत्रम् दस्युरेकः पुरे कापि, दुरारोहेपि मन्दिरे ॥ आरुह्य क्षात्रमखन-द्धनं चादाय निर्ययौ ॥१॥ ततः प्रातबहुद्रव्य-विनाशोत्पन्नदुःखतः॥ प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ॥ २॥ लोके च मिलिते भूरि-तरे तत्र स तस्करः ॥ कः किं वक्तीति निर्णेतु-मागान्म[लवेषभृत् ॥ ३॥[ युग्मम् ] लोकाश्चैवं तदा प्रोचु-र्दुरारोहेऽत्र वेश्मनि ॥ आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् ? ॥ ४॥ क्षात्रेणानेन लघुना, परास्कन्दी कथं च स ॥ प्रविष्टो वित्तमादाय, निर्गतो वा भविष्यति ? ॥ ५॥ तदस्य खेचरस्येव, गाट चरशिरोमणेः ॥ वाचामगोचरां शकि, दृष्ट्वा चित्रीयते मनः ॥ ६ ॥ इति लोकोक्तिमाकर्ण्य, तुष्टश्चौरोऽप्यचिन्तयत् ॥ सत्यमेतत्कथमहं, प्रविष्टो निर्गतोऽमुना ? ॥७॥ इति खीयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् ॥ मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाञ्चक्रे जडाशयः ! ॥ ८ ॥ तत्रागता राजनरास्ततस्तं, निश्चित्य चौरं जगृहुः सुदक्षाः ॥ निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति स्म सम्यक् ! ॥९॥ इति पापप्रशंसाभिलाषे चौरकथा ॥ एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ॥ ३॥ इह च कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्ति विनी, अमुक्ती वा धनादिवत्तद्विभज्यैवामी भोक्ष्यन्तइत्यपि कश्चिन्मन्येताऽत आहमूलम्-संसारमावण्ण परस्स अट्टा, साहारणं जं च करेइ कम्मं ॥ कम्मरस ते तस्स उ वेअकाले, न बंधवा बंधवयं उविति ॥ ४॥ व्याख्या-संसरणं तेषु तेषूचावचकुलेघु पर्यटनं संसारस्तमापन्नः प्रासः परस्यात्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अट्ठत्ति' अर्थात् प्रयोजनमाश्रित्य साधारणं 'जंचत्ति' चस्य वा शब्दार्थत्वाद्भिन्नक्रमत्वाच साधारणं वा यदात्मनोन्येपाश्चैतद्भविष्यतीति बुद्धिपूर्वकं करोति कर्म कृष्याद्यनुष्ठानं, भवानिति गम्यं, कर्मणस्तस्यैव कृष्यादेः ते तव कर्मकर्तुः 'तस्सउत्ति' तु शब्दस्यापिशब्दार्थत्वात्तस्यापि परार्थस्य साधारणस्य वा आस्तामात्मनिमित्तस्येति भावः, वेदकाले विपाककाले न नैव बान्धवाः खजना यदर्थ कर्म कृतवान् ते बान्धवतां तद्विभजनस्फेटनादिना 'उविंतित्ति' उपयान्ति, तेन खजनोपरि मोहं हित्वा धर्म एवावहितेन भाव्यं । उक्तञ्च__ "रोगामातो दुःखादितस्तथा खजनपरिवृतो जीवः ॥ कणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोसौ ॥१॥ माता माता भगिनी, भार्या पुत्रस्तथा च मित्राणि ॥ न नन्ति ते यदि रुज, खजनबलं किं वृथा वहसि ? ॥२॥ रोगहरणेप्यशकाः, प्रत्युत धर्मस्य ते तु विघ्नकराः ॥ मरणाञ्च न रक्षन्ति, खजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात्खजनस्यार्थे, यदिहाकार्य करोषि निर्लज ! ॥ भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥४॥ तस्मात्खजनस्योपरि, विहाय रागं च निवृतो भूत्वा ॥ धर्म कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् ! ॥ ५ ॥' अत्रोदाहरणमाभीरीवश्चकवणिजस्तत्र चायं सम्प्रदायः-- ___ तथा हि नगरे क्वापि, वणिगेकोऽभवत्पुरा ॥ स च हट्टस्थितश्चक्रे, न्यापार प्रतिवासरम् ॥ १ ॥ अन्यदा सरलात्यर्थ-मामीर्यका तदापणे ॥ रूपकद्वयमादाय, कर्पासार्थमुपागमत् ॥ २॥ कर्पासश्च समर्थोऽभू-तदा तस्मात्स नैगमः ॥ एकरूपककर्षासं, तोलयित्वा ददौ द्विशः ॥३॥ द्वयो रूपकयोर्दत्तः, कसो मे द्विरपणात् ॥ सा तु ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ॥ ४ ॥ वणिक् स तु तदा दध्यो, रूपकोऽयं मया मुधा ॥ लेभे भाग्यात्तदद्यैन-मुपभुजेऽहमात्मना ! ॥५॥ इति ध्यात्वा रूपकस्य, तस्याज्यसमितागुडान् ॥ गृहे प्रैषीद्भार्यया च, घृतपूरानचीकरत् ! ॥ ६ ॥ तयाऽथ घृतपूरेषु, कृतेष्वागात्पुरान्तरात् ॥ तजामाता तत्र मित्र-युक्तः कार्येण केनचित् ! ॥७॥ ततः सा घृतपूरैस्तै-स्तं सतंत्रमभोजयत् ॥ जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः !॥ ८॥ तस्मिन् गते च स वणिम् , भोजनाय गृहं गतः ॥ वीक्ष्य खाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् !॥९॥ मनखिनि ! कुतो नाद्य, घृतपूराः कृतास्त्वया ? ॥ जगाद रमणी खामि-निर्मितास्तेऽभवन्मया ॥१०॥ किन्तु हेतोः कुतोप्यत्रायातोऽस्महुहितुः पतिः॥ समित्रो घृतपूरैस्तै- जितो गमनोत्सुकः ! ॥११॥ तन्निशम्य समुत्पन्न-विषादः स व्यचिन्तयत् ॥ मया परार्थमाभीरी-वराकी वञ्चिता वृथा ! ॥ १२॥ तद्विप्रतारणोत्पन्नं, पापमेव मम स्थितम् ॥ घृतपूरास्तु ते जग्धाः, परैरेत्य कुतश्चन ॥ १३॥ पापं हि क्रियते मूढः, स्त्रीपुत्रादिकृते भृशम् ॥ विपाकस्य तु काले त-त्खयमेवोपभुज्यते ! ॥ १४ ॥ इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय सः ॥ ग्रीष्ममध्याह्नार्कतसो, विशश्राम तरोतले ॥ १५ ॥ साधुमेकं च भिक्षायै, यान्तं वीक्ष्यैवमब्रवीत् ॥ भगवन्नेहि विश्राम्य, वार्तयन्मामिह
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy