________________
उत्तराप्ययनसूत्रम् नो बहुमूल्यस, वस्खादेर्ग्रहणं मतम् ! ॥५१॥ इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूछेया ॥ किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ॥ ५२ ॥ अस्य मूछोनिदानेन, किमननेति सूरयः ॥ तस्मिन् क्वापि गते रन-कम्बलं तमकर्षयन् ॥ ५३ ॥ विधाय तस्य शकला-निषद्यायै तपखिनाम् ॥ आर्पयंस्तच विज्ञाय, शिवभूतिरदूयत ॥ ५४ ॥ कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् ॥ अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् ॥ ५५ ॥ भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः ॥ तत्रैके मुअते पाणा-वन्ये त्वभन्ति पात्रके ॥५६॥ तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवः ॥ तत्र पस्खधरा एके-ऽन्ये तुचीवरबार्जिताः ॥५७॥ श्रत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः॥ विधीयते न निम्रन्यै-निप्परिग्रहतार्थिमिः ? ॥ ५८ ॥ सूरिजंगाद व्युछिनो, जिनकल्पो हि भारते ॥ श्रीवीरखा. मिपात्रेण, श्रीजम्बूखामिना समम् ॥ ५९ ॥ सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न मारशाम् ॥ मादृशो हि महासत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ! ॥ ६॥ मोक्षार्थिना हि सकल-स्त्याज्य एव परिग्रहः ॥ वस्त्रपात्रादिकमपि, तत्त्यस्यामि परिग्रहम् ! ॥ ६१ ॥ सूरयः प्रोचिरे वत्स !, वनपात्रादिकं सदः ॥ धर्मोपकरणं तेन, न परिग्रह उच्यते ! ॥६२॥ तद्रक्षणे च नो कश्चि-दोषो मोक्षार्थिना भवेत ॥ लोमादेव हि मोक्षस, विघ्नः स्यान्न तुचीवरात् ! ॥६३ ॥ प्रयोगश्चात्र वस्त्रादि, न दोषाय तपखिनाम् ॥ धर्मोपष्टम्मदायित्वात् , शुद्धाहारादिवत्स्फुटम् ! ॥ ६४ ॥ नच हेतुरसिद्धोऽय-मिति वाच्यं त्वया यतः ॥ धर्मोपष्टम्भदायित्वं, तखाऽध्यक्षेण दृश्यते ! ॥६५॥ तथा हिखानोपवेशनखाप-निक्षेपग्रहणादिषु ॥ जन्तुप्रमार्जनार्थ हि, रजोहरणमिष्यते ॥ ६६ ॥ सम्पातिमादिसत्वानां, रक्षायै मुखवत्रिकाम् ॥ भक्तपानस्थजन्तूना, परीक्षायै च पात्रकम् ॥ ६७॥ सम्यक्त्वज्ञानचारित्र-तपःसांधनहेतवे॥ चीवराणि च कल्पादी-न्यगीकुर्वन्ति साधवः ॥ ६८॥ [ युग्मम् ] वस्वैर्विना तु शीतोष्ण-दंशादिभिरुपद्रुतः ॥ अपच्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ! ॥ ६९ ॥ धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता ॥ सुनिश्चितेति प्रतिनां, तदादानं न दुष्यति ॥७॥ विनोपकरणं यस्तु, जीवादीखातुमीश्वरः ॥ जिनेन्द्रवत्तस्य दोषः, स्यात्तदग्रहणेऽपि न ॥ ७१ ॥ स चाद्यसंहननवा-नेवस्थानाऽपरः पुनः ॥ तच संहननं कस्या-ऽप्यधुना नास्ति भारते ॥७२॥ युक्तयेत्यादिकयोक्तोऽपि, शिवोऽत्यक्तकदाग्रहः ॥ हित्वा वखादिकं नमो, निरगानगराहिः ॥७३॥ तोचानस्थितं नन्तुं, तद्भगिन्युत्तराभिधा ॥ ययौ नमं च तं वीक्ष्य, साऽपि नमाऽभवद्रुतम् ! ॥ ७४ ॥ मिक्षार्थ नगरीमध्ये, प्रविष्टां तां तु नमिकाम् ॥ ददर्श गणिका काचि-दध्यौ चैवं खचेतसि ॥ ७५ ॥ अङ्गान्याच्छादितान्वेवा-ऽस्माकं गौरवमियति ॥ प्रकाश्यानि तु तानि स्यु-र्जुगुप्स्यानि खभावतः ॥ ७६ ॥ तदेनां नमिकां वीक्ष्याऽलासु लोको विरंक्ष्यते ॥ ध्यात्वेति तसै वस्त्राणि, सा बलात्पर्यघापयत् ॥ ७७ ॥ तथापि तामनिच्छन्ती, शिवमूतिरदोऽवदत् ॥ साध्वीनां वसनादाने, नूनं दोषो न विद्यते ॥ ७८ ॥ अत एव च देवीयं, प्रदत्ते चीवराणि ते ॥ तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ॥ ७९ ॥ शिवभूतेश्च शिष्यो द्वा-वभूतां बुद्धिशालिनौ ॥ कोडिअकोट्टवीराख्यौ, ताभ्यामासीत्परम्परा ॥ ८॥ इत्यष्टमो दिक्पटसंज्ञनिहवः, प्रकाशितो हारितशुद्धबोधिकः ॥ लग्धोऽपि बोधिजतीति कस्यचित् , तद्रक्षणं तत्कुरुत प्रयनतः !॥ ८१॥ इत्यष्टमनिहवकथा ॥ इति समासा निहलवक्तन्यतेति सूत्रार्थः ॥९॥ अथ मानुषत्वादित्रयावासावपि संयमे वीर्य दुर्लममित्याहमूलम्-सुइंच लद्धं सद्धं च, वीरिअं पुण्ण दुल्लहं॥ बहवे रोअमाणावि. नोयणं पडिवजए॥१०॥
व्याख्या-श्रुति, चशब्दात्मानुषत्वं च, लब्ध्वा प्राप्य, श्रां च, वीर्य, प्रक्रमात्संयमविषयं पुनःशब्दस्य विशेषकत्वात् विशेषेण दुर्लमं, यतो बहवो रोचमाना अपि श्रद्दधाना अपि 'नोयणंति' सूत्रत्वानो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकर्मोदयतः सत्सकिश्रेणिकादिवत्कर्तुं नाङ्गीकुर्वन्तीति सूत्रार्थः ॥ १० ॥ अथास्य चतुरङ्गस्य फलमाहमूलम्-माणुसतंमि आयाओ, जो धम्म सुच्च सदहे ॥ तवस्सी वीरिअं लडु, संखुडे निढुणे रयं ॥११॥ म्याख्या-मानुषत्वे आयातो यो वम श्रुत्वा 'सहहेत्ति' श्रद्धत्ते स तपखी निदानादिगी
प्रशस्यतपोन्वितः वीर्य संयमोद्योगं लब्ध्वा संवृतः स्थगिताश्रवो निघुनोति नितरामपनयति, रजो बध्यमानकर्मरूपं, तदपनयनाथ मुक्तिमेवामोतीति भाव इति सूत्रार्थः ॥ ११ ॥ इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाहमूलम्-सोही उजुअभूअस्स, धम्मो सुद्धस्स चिट्टइ ।। णिहाणं परमं जाइ,घयसित्तिव पावए ॥१२॥ म्याख्या-शुद्धिः कषायकालुयापगमः, सादिति गम्यते, ऋजुभूतस चतुरजप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य