________________
॥५४॥
उचराप्ययनसूत्रम् चार्यधुरन्धराः १ ॥ पृष्टस्तैरिति साशंकः, सागरोऽप्यब्रवीदिति ॥ ३३ ॥ आचार्यवर्यानायाता-नत्र नो वेमि कांचन ॥ एको वृद्धयतिः किन्तू-जयन्या अस्त्युपागतः! ॥ ३४ ॥ तं वृद्धसाधुमस्माक-मिदानीं दर्शयेति तैः ॥ उदितः सागराचार्य-स्तान्मुनीन्द्रानदीशत् ॥ ३५ ॥ तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् ॥ जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ! ॥ ३६ ॥ शिष्यैरस्मादृशैर्दुष्टै-रविनीतैः प्रमादिभिः ॥ खिन्ना अमी विमुच्यास्मा-नत्रैका किन आययुः॥ ३७॥ प्रमादेन यथास्माभि-रज्ञानेन तथा त्वया ॥ अवज्ञाताः सूरयस्त-त्सागर ! स्मो वयं समाः! ॥ ३८ ॥ इत्युक्त्वा ते खापराध, क्षमयाञ्चक्रिरे गुरोः ॥ सागरार्योऽपि सम्भ्रान्तः, सूरीन्नत्वैवमब्रवीत् ॥ ३९ ॥ युष्माकं विश्वपूज्यानां, यदज्ञानवशान्मया ॥ आशातना कृता तस्या, मिथ्यादुष्कृतमस्तु मे !॥ ४०॥ वारंवारमुदीर्यैव-मित्यप्राक्षीच्च सागरः ॥ श्रुतं व्याख्यामि कीदृक्ष-महं ब्रूत पितामहाः! ॥४१॥ सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि ॥ तथापि गर्व मा कार्षीः, सर्वज्ञो बस्ति कोऽधुना?॥ ४२ ॥ इत्युक्त्वा कालकाचार्याः, पलकं वालुकाभृतं ॥ नद्या आनाययं-स्तस्य प्रतिबोधाय धीधनाः॥४३॥ स्थाने क्वाऽप्यऽखिलां क्षिप्त्वा, रेणुमुद्धृत्य तां पुनः ॥ द्वितीयस्थानके न्यास्थं-स्ततोऽपि च तृतीयके ॥ ४४ ॥ स्थानेषु बहुषु क्षेपं, क्षेपमेवं समुद्धृताः॥ वालुका जज्ञिरे स्तोक-तरा भूम्यादिसङ्गतः ॥४५॥ प्रदय रेणुदृष्टान्त- मेवं ते सागरं जगुः ॥ वत्स ! नद्यां यथा सन्ति, भूयस्यो वालुकाः खतः ॥ ४६ ॥ विज्ञानमेवं सम्पूर्ण-मनन्तमविनश्वरम् ॥ अभूत्वतो जिनेन्द्रेषु, लोकालोकप्रकाशकम् ॥ ४७ ॥ पलकेन यथोपात्ताः, सरितः स्तोकवालुकाः ॥ तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम् ॥ ४८ ॥ स्थाने स्थाने च निक्षिप्यो-त्क्षिप्ताः क्षित्यादिसङ्गतः ॥ क्षीयमाणा यथाऽभूवन् , स्तोकाः पल्लकवालुकाः ॥४९॥ तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् ॥ कालादिदोषतः शिष्ये-- वल्पाल्पतरबुद्धिषु ॥ ५० ॥ विस्मृसादेः क्षीयमाण-मल्पमेवाऽथ वर्तते ॥ विवेकिना विमृश्येति, न कार्यो धीमदः क्वचित् ॥५१॥ [ युग्मम् ] एवमेवामृत्पिण्ड-दृष्टान्तमपि दर्शयन् ॥ उजगार गुरुः प्रज्ञा-मदं मा कुरु सागर ! ॥५२॥ यतः-" मा वहउ कोवि गवं, इत्थ जगे पंडिओ अहं चेव ॥ आसवणुमईओ, तरतमजोगेण मइ विहवा ॥५३॥" प्रतिबुद्धस्तदाकण्ये, सागरो धिषणामदं ॥जहाँ प्राकृतधीदर्प-दोषं चालोचयन्मुहुः॥५४॥ सागरक्षपकवन्मुनीश्वरै-नों विधेय इति धीमदः क्वचित् ॥ किन्तुकालकमुनीन्द्रवत्सदा, सह्य एव धिषणापरीषहः ॥५५॥ इति प्रज्ञापरीषहे सागराचार्यकथा ॥२०॥ __ इदश्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु खयं ज्ञेयमिति, इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वाचाज्ञानस्याज्ञानपरीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधैव स्यात्तत्र तत्सद्भावपक्षमधिकृत्येदं सूत्रद्वयमुच्यतेमूलम्-णिरहगंमि विरओ, मेहुणाओ सुसंवुडो।जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं॥४२॥
व्याख्या-' निरढगंमित्ति' अर्थः प्रयोजनं, तदभावो निरर्थ. तदेव निरर्थकं, तस्मिन् , प्रयोजनं विनेत्यर्थः, विरतो निवृत्तो, मैथुनादब्रह्मणः। सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया पुस्त्यजत्वात् , सुसंवृत इन्द्रियनोइन्द्रियसंवरणेन, योऽहं साक्षात् परिस्फुटं नाभिजानामि, धर्म वस्तुखभावं, 'कल्लाणत्ति' लुप्तस्य बिंदोर्दर्शनात्कल्याणं शुभं, पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो, यदि विरतेः कश्चिदर्थः सिध्येन्न तदा ममेत्थमज्ञानं सम्भवेदिति ॥४२॥ न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्तिः स्यादिति वाच्यं १ यतःमूलम्-तवोवहाणमादाय, पडिमं पडिवज्जओ। एवंपि विहरओ मे, च्छउमं न णिअट्टइ ॥ ४३ ॥
व्याख्या-तपो भद्रमहाभद्रादिः, उपधानमागमोपचाररूपमाचाम्लादि, आदाय आसेन्य, प्रतिमा मासिक्यादिरूपां प्रतिपद्यमानस्यांगीकुर्वतः, एवमपि विशिष्टचर्ययापि विहरतो निःप्रतिबन्धत्वेनानियतं विचरतः, छम ज्ञानावरणादि कर्म न नैव निवर्त्तते नापैति, तत्किमनेन ? कष्टानुष्ठानेनेति यतिनं चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्ध नीयमिति सूत्रद्वयार्थः ॥ ४३ ॥ एवं ज्ञानाभावे व्याकुलत्वं न कार्य, उपलक्षणत्वाचास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यतः-"ज्ञानं मददर्पहरं, माघति यस्तेन तस्य को वैधः १ ॥ अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते ? ॥१॥ इति । उदाहरणश्चात्र, तथाहि
गंगाकूले स्थिते कापि, नगरे भ्रातरावुभौ ॥ श्रुत्वा धर्म गुरोः पार्थे, संविग्नौ भेजतुर्बतम् ॥ १॥ बहुश्रुतस्तयोरे को-ऽन्यस्त्वभूदबहुश्रुतः ॥ बहुश्रुतो यः स प्रापा-ऽऽचार्य खगुरोः क्रमात् ॥ २॥ सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिर