SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥ ५० ॥ उत्तराध्ययनसूत्रम् । हस्य भङ्गोऽधिकरणग्रहणं तथा ॥ स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ॥ १९ ॥ इति ध्यात्वा स निर्गत्य, पुरादारुथ भूधरम् || महासत्त्वः पादपोप - गमनं विदधे मुनिः ॥ २० ॥ तञ्चात्तानशनं ज्ञात्वा ऽरक्षयत्वनरैर्नृपः ॥ अस्योपसर्ग माकार्षीत्कश्चिदित्यवधारयन् ॥ २१ ॥ इतश्च यो हतस्तेन, शिवोऽभूद्यन्तरस्तदा ॥ सोऽपश्यत्तं भ्रमन् जात - कोपः प्रायुक्त चावधिम् ॥ २२ ॥ ज्ञात्वा प्राग्भववार्ता तां वैरनिर्यातनोद्यतः ॥ तं मुनीन्द्रमुपद्रोतुं सवत्सां व्यकरोच्छिवाम् ॥ २३ ॥ नृपाऽऽयुक्ता नरा यावत्तस्थुस्ते साधुसन्निधौ ॥ तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ॥ २४ ॥ यदा तु ते नरा जग्मुः, साधुपार्श्वात्तदा तु सा ॥ शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ॥ २५ ॥ तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् ॥ स महात्माऽसहिष्टोच्चै - धैर्याऽधरितभूधरः ! ॥ २६ ॥ दुःखे रोगोत्थिते सत्य - प्यार्तध्यानविधायके ॥ गोमायूत्पादिते चोत्र - रौद्रध्यानानुबन्धके ॥ २७ ॥ समतारसपाथोधि-र्मुनीन्द्रः कालवैशिकः ॥ नार्तरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ॥ २८ ॥ [ युग्मम् ] एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् ॥ सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ॥ २९ ॥ केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः ॥ महामुनिर्महानन्द - पदं प्राप महाशयः ॥ ३० ॥ [ युग्मम् ] इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः ॥ सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ॥ ३१ ॥ इति रोगपरीषहे कालवैशिककथा ॥ १६ ॥ रोगिणश्च शयनादिषु दुःसहतरस्तृणस्पर्श इति तत्परीषहमाह - मूलम् — अचेलगस्स लूहस्स, संजयस्स तवस्सिणो ॥ तणेसु सुअमाणस्स, होजा गाय विराहणा॥३४॥ व्याख्या- अचेलकस्य रूक्षस्य संयतस्य तपखिनः तृणेषु दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेद्गात्रविराधना शरीरविदारणा, अत्र च सचेलस्य तपखिनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि त्रिग्धवपुषो नातिदुःखाकरस्तृणस्पर्श इत्युक्तं रूक्षस्येति, रूक्षस्यापि हरिततृणग्राहिणस्तापसादिवदसंयतस्य तृणस्पर्शो न व्यथायै स्यादिति संयतस्येत्युक्तमिति सूत्रार्थः ॥ ३४ ॥ ततः किमित्याह मूलम् - आयवस्स निवारणं, अउला हवइ वेअणा ॥ एअं नच्चा न सेवंति, तंतुजं तणतजिआ ॥३५॥ व्याख्या - आतपस्य धर्मस्य निपातेन संपातेन अतुला महती भवति वेदना, ततः किं कार्यमित्याह-एतदनन्तरोक्तं ज्ञात्वा न सेवन्ते तंतुजं वस्त्रं कम्बलं वा, तृणैर्दर्भादिभिस्तर्जिताः पीडितास्तृणतर्जिताः । अयं भावः - यद्यपि दर्भादितृणविलिखितवपुष आतपोत्पन्नखेदक्लेदवशात् क्षतक्षारनिक्षेपरूपैव पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददानैरार्त्तध्यानमकुर्वाणैः सा सम्यक् सोढव्या, जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ॥ ३६ ॥ उदाहरणञ्चात्र, तथाहि श्रावस्तीनगरी भर्तु - र्जितशत्रुमहीपतेः ॥ भद्राभिधोऽभवत्सूनुः, सात्विकेषु शिरोमणिः ॥ १ ॥ मुनीनामन्तिके जैनं, धम श्रुत्वा विरक्तधीः ॥ स प्रव्रज्यामुपादत्त, क्रमाचाऽभूद्वहुश्रुतः ॥ २ ॥ प्रतिपद्याऽन्यदैकाकि - विहारप्रतिमा जती ॥ विजहार धरापीठे - ऽप्रतिबद्धः समीरवत् ॥ ३ ॥ अन्येद्युर्विहरन् सोऽथ, क्वापि राज्यान्तरे गतः ॥ हेरिकोयमिति ज्ञात्वा, जगृहे राजपूरुषैः ॥ ४ ॥ कस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे ! ॥ पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषाः ॥ ५ ॥ व्रती तु प्रतिमास्थत्वा - न्न किमप्युत्तरं ददौ । ततस्ते कुपिताः क्षार - दानेन तमतक्षयन् ॥ ६ ॥ निशातखद्रवत्तीक्ष्ण- घारैर्देर्भेश्व तं मुनिम् ॥ गाढमावेष्ट्य मुक्त्वा च, ते दुष्टाः स्वाश्रयं ययुः ॥ ७ ॥ यतेस्तस्याऽऽमिषं बाउं, समन्तादपि तैः कुशैः ॥ विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत ! ॥ ८ ॥ तथापि कलुषं ध्यान - मकुर्वाणः क्षमानिधिः ॥ स सम्यगधिसेहे तं तृणस्पर्शपरीषहम् ॥ ९ ॥ लग्ना शूकशिखाऽप्यऽङ्गे ऽङ्गिनां क्षोभाय जायते ॥ स तु दक्षो न चुक्षोभ, मांसमनैः कुशैरपि ! ॥ १० ॥ एवं तृणस्पर्शपरीषहं यथा - ऽधिसोढवान् भद्रमुनिर्महाशयः ॥ तथाऽयमऽन्यैरपि साधुपुङ्गवै - स्तितिक्षणीयः क्षतमोहवैरिभिः ॥ ११ ॥ इति तृणस्पर्शपरीषहे भद्रमहर्षि कथा ॥ १७ ॥ तृणानि च मलिनान्यपि कानिचिद्भवन्ति तत्सङ्गमाच्च परिखेदेन जलः सम्भवतीति तत्परीषहमाह - मूलम् — किलिपणगाए मेहावी, पंकेण व रएण वा । धिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६ ॥ १ पप्रच्छुरिति तं भूप – पुरुषा ऋषिपुङ्गवम् । इति 'ग' संज्ञकपुस्तके ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy