SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 347 उत्तराध्ययन मूलम्-तत्तो अ वग्गवग्गो उ, पंचमओ छटुओ पइण्णतवो। मणइच्छिअचित्तत्थो, नायवो होइ इत्तरिओ ॥ ११ ॥ व्याख्या-ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एव यदा वर्गण गुण्यते तदा वर्गवगर्गो भवति, यथा चत्वारि सहस्राणि षण्णवत्यधिकानि तायतैव गुणितानि जाता एका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिः सहस्राणि द्वे शते षोडशाधिके [१६७७७२१६ 1 एतावद्भिस्तपःपदैरुपलक्षितं तपो वर्गवर्गतप त्य च्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं, एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या । षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं खशक्त्या यथाकथञ्चिविधीयते, तच नमस्कारसहि. तादि पूर्वपुरुषाचरितं यवमध्यवनमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि-मनसः इप्सित इष्टश्चित्रोऽनेकप्रकारोऽथेः स्वगोपवगोंदिस्तेजोलेश्यादियो यस्मात्तन्मनइप्सितचित्रार्थ ज्ञातव्यं भवति 'इन्व रक' प्रक्रमादनशनाख्यं तपः ॥ ११ ॥ सम्प्रति मरणकालमनशनमाह मूलम्-जा सा अणसणा मरणे, दुविहा सा विआहिया । सवियारमवियारा, कायचिटं पई भवे ॥ १२ ॥ व्याख्या-'जा सा अणसणत्ति' यत्तदनशनं मरणे मरणावसरे द्विविधं तयाख्यातं कथितं, तद्वैविध्यमेवाह-सह विचारेण चेष्टालक्षणेन वर्तते यत्तत्सविचारं, तद्विपरीतं त्वविचारं, कायचेष्टामुदर्सनादिकां प्रतीति प्रतीत्याश्रित्य भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तत्र भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो विधिना संलेखनां विधाय त्रिविधं चतुर्विधं पाऽऽहारं प्रत्याचप्टे, स च समास्तृतमृदुसंस्तारकस्त्यक्तभक्तकरणोपकरणादिममत्यः स्वयमुच्चरितनमस्कारः पार्थवर्त्तिमुनिदत्तनमस्कारो वा सत्यां शक्ती खयमुर्तनादि कुरुते, शक्तेरमा. येऽपरैरपि किञ्चित्कारयतीति ॥ १॥ इङ्गिनीमरणे त्यालोचनासंलेखनादिपूर्व शुद्धस्थण्डिलस्थित एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानो नियमितस्थण्डिलस्यैवान्तश्छायात उष्णमुष्णाच च्छायां स्वयमेव संक्रामति न त्वन्येन किञ्चित्कारयतीति ॥ २॥ अविचारं तु पादपोपगमनं, तत्र हि देवगुरुवन्दनादिविधिना चतुर्विधाहारप्रत्याख्यानं कृत्वा गिरिकन्दरादौ गत्वा पादप इव यावज्जीवं निश्चेष्ट एवावतिष्ठते ॥ ३ ॥ १२ ॥ पुनद्वैविध्यमेव प्रकारान्तरेणाहमूलम् अहवा सपरिकम्मा, अपरिकम्मा य आहिआ। नीहारिमनीहारि, आहारच्छेओ दोसुवि१३ व्याख्या-अथवेति प्रकारान्तरसूचने, सपरिकर्म स्थानोपवेशनत्वग्वर्तनोद्वर्तनादिलक्षणपरिकर्मयुक्तं, अपरिकर्म च तद्विपरीतमाख्यातं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, आये खपरकृतस्य द्वितीये तु खयंकृतखोद्वर्तनादिपरिकर्मणः सद्भावात् , अपरिकर्म तु पादपोपगमनं, तत्र सर्वथा परिकाभावात् । उक्तञ्च-"समविसमंमि य पडिओ, अच्छइ सो पायवोब निकंपो ॥ चलणं परप्पओगा, नवरि दुम्मस्मेव तस्स भवे ॥१॥" यद्वा परिकर्म संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थो. भयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसम्भवात् , यदुक्तं-"देहम्मि असंलिहिए, सहसा धाऊहिं खिजमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिमकालम्मि ॥१॥” इति सपरिकर्मोच्यते । यत्पुनर्व्याघाते विद्युद्भिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मति । तथा निर्हरणं निहोरो गिरिकन्दरादौ गमनेन ग्रामादेर्वहिर्गमनं तद्विद्यते यत्र तन्निर्हारि, यत् पुनरुत्थातुकामे बजिकादौ क्रियते तदनिर्हारि, तत्र वापि गमनाभावात् । एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं-“पाओवगमणं दुविहं, नीहारिं चेव तह अनीहारिं । बहिओ गामाईणं, गिरिकंदरमाइ नीहारिं ॥१॥ वइआसु जं अंतो, उट्ठाउमणाण ठाइ अणिहारिं । तम्हा पाओवगमणं, जं उवमा पायवेणेत्थ ॥२॥" आहारच्छेदोऽशनादित्यागो द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोनियिनिहींरिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ॥ १३ ॥ उक्तमनशनं ऊनोदरतामाहमूलम-ओमोअरणं पंचहा, समासेण विआहि। दवओ खित्तकालेणं, भावेणं पजवेहि अ ॥१४॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy