SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 334 उत्तराध्ययन यति, दक्षिणभावं चानुकूलभावं जनयति लोकस्येति गम्यते ॥ १० ॥ १२ ॥ सामायिकादिगुणवता च प्रथमान्तिमाहतोस्तीर्थ सर्वदा, मध्यमार्हतां चापराधसम्भवे प्रतिक्रमणं कार्यमिति तदाहमूलम्-पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिदाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अहसु पक्यणमायासु उवउत्ते अपुहत्ते सुप्पणिहए विहरइ ॥ ११ ॥ १३ ॥ व्याख्या-प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितातछिद्रः पुनषिो निरुद्धाश्रषोऽत एवाऽशवलं शबलस्थानेरकर्बुरं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विपते पृथक्त्वं प्रस्तावात् संयमयोगयियोगरूपं यस्यासायपृथक्त्या, 'सुप्रणिहिता' सुटुसंयमप्रणिधिमान् विहरति संयमाध्यनि याति ॥ ११ ॥ १३ ॥ प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः कार्य इति तमाह-- मूलम्-काउस्सग्गेणं भंते ! जीवे किं जणयह? काउस्सग्गेणं तीअपडुपन्नं पायच्छितं विसोहेइ, विसुख पायच्छित्ते अजीवे नियहिअए ओहरियभरुब भारवहे पसस्थझाणोवगए सुहसुहेणं विहरद ॥ १ दोषरहितम् ॥ व्याख्या-कायोत्सर्गेणातीत घेह चिरकालभाषि, प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासमकालभावि, अतीतप्रत्युत्प प्रायश्चित्तं प्रायश्चित्ताहमपराधं विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं स्वस्थीभूतं हृदयमस्से हृदयमस्येति निवृत्तहदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा अपहृतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावाप्त्या विहरति ॥ १२ ॥ १४ ॥ कायो त्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह-- मूलम्-पञ्चक्खाणेणं भंते ! जीवे किंजणयइ ? पञ्चक्खाणेणं आसवदाराई निरंभइ ॥ १३ ॥ १५ ॥ व्याख्या-प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाच पूर्वोपचितं कर्म क्षपयति । नमस्कारसहितादिकं प्रत्याख्यानं चहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ॥ १३ ॥ १५ ॥ प्रत्याख्यानं च कृत्वा चैत्यसद्भावे तद्वन्दनं कार्य, तच स्तुतिस्तवमङ्गलं विना नेति तदाहमूलम्-थयथुइमंगलेणं भंते ! जीवे किं जणयइ ? थयथुइमंगलेणं नाणदसणचरित्तबोहिलाभंजण यह, नाणदंसणचरित्तबोहिलाभसंपण्णे अ णं जीवे अंतकिरिअं कप्पविमाणोववत्ति आराहणं आराहेइ ॥१४॥१६॥ व्याख्या-स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य इदन्तत्वात्पूर्वनिपातः, सूत्रे तु व्यत्ययः प्राकृतत्वात् , ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपी यो बोधिः स ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, ज्ञानदर्शनचारित्रबोधिलामसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निर्वर्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां आराधनामितियोगः, तथा कल्पा देवलोका विमानानि अवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधनां ज्ञानाचाराधनारूपामाराधयति साधयति ॥ ॥ १४ ॥ १६ ॥ अर्हन्नमनादनु खाध्यायः कार्यः, स च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्यादिति तामाहमूलम्-कालपडिलेहणयाएणं भंते ! जीवे किं जणयइ ?कालपडिलेहणयाएणं नाणावरणिज कम्म खवेइ ॥ १५॥ १७ ॥ व्याख्या-कालः प्रादोपिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा. तया ॥ १५ ॥ १७ ॥ कदाचिदकालपाठे प्रायश्चित्तं कार्यमिति तदाह १ ज्ञानदर्शनचारित्ररूपामाराधयति साधयतीति "" पुस्तकपाठः॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy