SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ 327 उतराध्ययन यक्ष 'रोएर उत्ति' रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, 'निसग्गोत्ति' स निसर्गरुचिज्ञेयः ॥ १७ ॥ अमुमेवार्थ स्पष्टतरमाह मूलम् — जो जिणदिट्ठे भावे, चउबिहे सद्दहइ सयमेव । एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायवो ॥ १८ ॥ व्याख्या - यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्य क्षेत्रका लभाव भेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्धातीत्याह - एवमेवैतद्यथा जिनैर्दृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः ॥ १८ ॥ उपदेशरुचिमाह - मूलम् - एए चेव उ भावे, उवइट्ठे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायबो १९ व्याख्या - एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति कीदृशेन परेणेत्याह-छद्मस्थेनानुत्पन्न केवलज्ञानेन जिनेन वा सआत केवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥ १९ ॥ अथ आज्ञारुचिमाह - मूलम् - रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणाए रोअंतो, सो खलु आणा रुई नाम २० व्याख्या - रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच 'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः कापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो मापतुपादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः॥२०॥ सूत्ररुचिमाह मूलम् - जो सुत्तम हिजंतो, सुरण ओगाहई उ सम्मत्तं । अंगेण वाहिरेण व, सो सुत्तरुइति नायवो २१ व्याख्या - यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूर्त्तं सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ २१ ॥ बीजरुचिमाहमूलम् - एगेण अणेगाई, पयाईं जो पसरई उ सम्मत्तं । उदए व तिलबिंदू, सो बीअरुइत्ति नायवो ॥ २२ ॥ व्याख्या – एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाई पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात्, उदक इव तैलबिन्दु:, यथोदकैकदेशगतोऽपि तैलविन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्वेषु रुचिमान् भवति, स एवंविधो वीजरुचिरिति ज्ञातव्यः ॥ २२ ॥ अभिगमरुचिमाह - मूलम् - सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिहं । एक्कारसअंगाई, पइण्णगं दिट्टिवाओ अ ॥ २३ ॥ व्याख्या—स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह - एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमनं च शब्दादुपाङ्गानि च उपपातिकादीनि ॥ २३ ॥ विस्ताररुचिमाह - मूलम् — दव्वाणं सवभावा, सबपमाणेहिं जस्स उवलद्धा। सङ्घाहिं नयविहिहि अ, वित्थाररुइत्ति नायवो२४ व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सङ्घाहिंति' सर्वैर्नयविधिभिर्नैगमादिनयभेदैः, चः समुच्चये, स विस्ताररुचिर्ज्ञातव्यः ॥ २४ ॥ क्रियारुचिमाह— मूलम् — दंसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु । जो किरिआ भावरुई, सो खलु किरिआरुई नाम ॥ २५ ॥ व्याख्या — दर्शनज्ञानचरित्रे तपोविनये सत्याश्चताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः,
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy