________________
311 उसराध्ययन मूलम्-अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोसे, जण्णं जयइ वेअवी ॥४॥
व्याख्या--'तेणेव कालेणंति' तस्मिन्नेव काले ॥४॥ मूलम-अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जपणंमि, भिक्खमहा उवहिए ५ व्याख्या-'भिक्खमट्ठत्ति' मोऽलाक्षणिकस्ततो भिक्षार्थमिति सूत्रद्वयार्थः॥५॥ तत्र च यदसौ याजकश्चके तदाहमूलम्-समुवहि तहिं संतं, जायगो पडिसेहए।
न हु दाहामु ते भिक्खं, भिक्खू जायाहि अन्नओ ॥ ६ ॥ ब्याख्या-समुपस्थित भिक्षार्थमागतं सन्तं तं संयतं तर्हि तत्र याजको यज्वाऽजातप्रत्यभिज्ञो विजयघोष एव प्रतिषेधति,'न हुत्ति' नैव दास्यामि ते तुभ्यं भिक्षा हे भिक्षो। 'जायाहिचि' याचस्प अन्यतो अन्यस्मात् ॥६॥ कुत इत्याहमूलम्-जे अवेअविऊ तिप्पा, जण्णहा य जे दिआ। जोइसंगविऊ जे अ, जे अधम्माण पारगा ॥७॥
व्याख्या-ये च वेदविदो वित्रा जातितो यज्ञार्थाश्च यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते, द्विजाः संस्कारापेक्षया द्वितीयजन्मानः । ज्योतिपं च ज्योतिःशास्त्रं, अङ्गानि च शिक्षादीनि विदन्ति ये ते ज्योतिषाङ्गाविदः । इहाङ्गत्वेऽपि ज्योतिषः पृथक् ग्रहणं प्राधान्यख्यापकं । ये च धर्माणां धर्मशास्त्राणां पारगाः । अशेषविद्यास्थानोपलक्षणमिदम् ॥७॥ मूलम्--जे समुत्था समुद्धतुं, परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू सबकामिअं॥८॥
व्याख्या-ये समर्थाः समुद्धर्तुं भवाब्धेरिति गम्यं, 'सबकामिअंति' सर्वाणि काम्यान्यभिलपणीयवस्तूनि यत्र तत्काम्यं, पदसोपेतमित्यर्थः ॥ ८॥ एवं तेनोको मुनिः कीरग् जातः, किञ्च चकारेत्याहमूलम्–सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुटो नवि तुट्ठो, उत्तिमहगवेसओ ॥९॥
व्याख्या-स जयघोषयतिः तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किमित्याह-यत उत्तमार्थो मोक्षस्तद्वेपको मोक्षार्थीत्यर्थः-॥९॥ मूलम्-नन्नदं पाणहेडं वा, नवि निवाहणाय वा । तेसिं विमोक्खणहाए, इमं वयणमब्बवी ॥ १० ॥
व्याख्या--न नैव अन्नार्थ पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थ वा आत्मन इति गम्यं । किमर्थं तहीत्याह- तेषां याज्ञिकानां विमोक्षणार्थ इदं वचनमब्रवीत् ॥ १० ॥ किं तदित्याह
मूलम्-नवि जाणसि वेअमुहं, नवि जण्णाण जं मुहं।
नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥ ११॥ व्याख्या-नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं । नापि नैव यज्ञानां यन्मुखगुपायः । नक्षत्राणां मुखं प्रधानं यच, यच धर्माणां वा मुखमुपायः । अनेन तस्य वेदयज्ञज्योतिर्द्धनिभिज्ञत्वमुक्तम् ॥११॥ अथ पात्राविज्ञत्वमाहमूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव यान ते तुमं विआणासि, अह जाणासि तो भण ॥१२॥
व्याख्या--स्पष्टमेतत् ॥ १२ ॥ एवं मुनिनोक्तः स किं चकारेत्याहमूलम्-तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ।सपरिसो पंजली होउं, पुच्छई तं महामुणिं ॥१३॥
व्याख्या-तस्य यतेराक्षेपस्य प्रश्नस्य प्रमोक्षः प्रतिवचनं, चः पूरणे, दातुमिति शेषः 'अचयंतोत्ति' अशक्नुवन् वलिन् यज्ञे द्विजः सपर्षत्सभान्वितः प्राजलिर्भूत्वा पृच्छति तं महामुनिम् ॥ १३ ॥ किमित्याहमूलम्-वेआणं च मुहंबहि, बूहि जण्णाण जं मुहं । नक्खत्ताण मुहं बहि, ब्रूहि धम्माण जं मुहं ॥१४॥ मूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव य । एयं मे संसयं सवं, साहू कहसु पुच्छिओ॥ १५॥
व्याख्या-[ स्पष्टे नवरम् ] 'संसयंति' संशयविषयं वेदमुखादीति सूत्रदशकार्थः ॥ १४ ॥ ॥ १५ ॥ मुनिराहमूलम्-अग्गिहोत्तमुहा वेआ, जण्णही वेअसा मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं १६ व्याख्या-अमिहोत्रं अमिकारिका, सा चेह “कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः ॥ धर्मध्यानामिना