________________
288
उत्तराध्ययन
रथनेमिः प्रभोर्भ्राता, रक्तो राजीमतीं कनीम् ॥ फलपुष्पविभूषादि - दानैर्नित्यमुपाचरत् ॥ ४ ॥ अयं हि सोदर - स्नेहा-त्सर्वमेतद्ददाति मे ॥ ध्यायन्तीत्याददेऽशेषं दत्तं तेनोग्रसेनजा ॥ ५ ॥ स तु तद्ब्रहणादेव, खानुरक्तां विवेद ताम् ॥ काचकामलिवत्कामी, वन्यथाभावमीक्षते । ॥ ६ ॥ तां चेत्युवाच सोऽन्येद्यु- र्मा विपीदः सुलोचने ! ॥ निरागो नेमिरत्याक्षी-यदि त्वां तर्हि तेन किम् ? ॥ ७ ॥ मां प्रपद्यस्व भर्त्तारं कृतार्थय निजं वयः ॥ त्वां हि कामं कामयेहं, मालतीमिव षट्पदः ॥ ८ ॥ सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि ॥ शिष्या तस्य भविष्यामि,
प्रार्थनयानया ? ॥ ९ ॥ तयेत्युक्तः स तूष्णीक-स्तस्थौ न तु जहाँ स्पृहाम् ॥ कामुको हि निषिद्धोऽपि, नेच्छां शुन इव त्यजेत् ! ॥ १० ॥ रथनेमिरथान्येद्यु- स्सतीं राजीमतीं रहः ॥ इत्युवाच पुनर्वाचा, मदनद्रुमकुल्यया ॥११॥ रक्ता मौ विरक्तेऽपि, शुष्के काष्ठ इवालिनी ॥ मृगाक्षि ! दक्षाप्यात्मानं, सन्तापयसि किं सुधा १ ॥ १२ ॥ हन्ताऽहं तब दासः स्या - माजन्म स्वीकरोषि चेत् ॥ भोगान् भुंक्ष्य विना तान् हि, विदो जन्माऽफलं विदुः । ॥ १३ ॥ तदाकर्ण्य पपौ क्षीरं, तस्य पश्यत एव सा । स्थाले पुरःस्थे मदन - फलाघ्राणेन चावमत् ॥ १४ ॥ पयः पिवेदमित्यूचे, रथनेमिं च सा सती ॥ सोऽब्रवीत्किमहं श्वास्मि १, यदुद्वान्तं पिबाम्यदः ! ॥ १५ ॥ स्मित्वा राजीमती स्माह, जानाति किमिदं भवान् १ ॥ सोऽवदच्छिशुरप्येतद्वेत्ति नो वेभ्यहं कुतः १ ॥ १६ ॥ ऊचे राजीमती तर्हि, मां वान्तामपि नेमिना ॥ भोक्तुमिच्छन्कुतो मूढ!, कुर्कुरत्वं प्रपद्यसे १ ॥ १७ ॥ ततो विमुक्ततत्कामो, रथनेमिरगाद्गृहम् ॥ सती सापि सुखं तस्थौ, तप्यमानोत्तमं तपः ॥ १८ ॥
इतश्च नेमिश्छद्मस्थ-चतुष्पञ्चाशतं दिनान् ॥ ग्रामादिषु विहृत्यागा-यो रैवतकाचलम् ॥ १९ ॥ तत्राष्टमतपाः स्वामी, ध्यानस्थः प्राप केवलम् ॥ इन्द्राः सर्वे समं देवै - स्तत्रागुः कम्पितासनाः ॥ २० ॥ निर्मिते तैश्च समव-सरणे शरणे श्रियाम् ॥ उपविश्य चतुर्मूर्तिः, प्रारेभे देशनां प्रभुः ॥ २१ ॥ ज्ञानोत्पत्तिं प्रभोर्ज्ञात्यो - यानपालाद्वलाच्युतौ ॥ राजीमती दशार्हाद्या, यदवोऽन्येपि भूस्पृशः ॥ २२ ॥ तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च ॥ शुश्रुवुर्देशनां रम्या - मुद्वेलानन्दवार्द्धयः ॥ २३ ॥ [ युग्मम् ] श्रुत्वा तां देशनां बुद्धा, राजानोऽन्ये च मानवाः ॥ नार्यश्च प्रात्रजन् प्राज्याः, केचित्तु श्राद्धतां दधुः ॥ २४ ॥ गणिनो वरदत्ताद्या- स्तेषु चाष्टादशाऽभवन् ॥ द्वादशाङ्गीकृतः सद्य- त्रिपद्या स्वामिदत्तया ॥ २५ ॥ रथनेमिरपि खामि पार्श्वे प्रात्रजदन्यदा । राजीमती च सुमतिः, कन्याभिर्बहुभिः समम् ॥ २६ ॥ एतच्च सूत्रकारोऽपि दर्शयति
मूलम् - अह सा भमरसन्निभे, कुञ्चफणगपसाहिए । सयमेव लुंचई केसे, धिइमंता ववस्तिआ ॥३०॥
व्याख्या - सा राजीमती भ्रमरसन्निभानू, कूर्ची मूढकेशोन्मोचको वंशमयः, फणकः कङ्कतकस्ताभ्यां प्रसाधितान् संस्कृतान् धृतिमती स्वस्थचित्ता व्यवसिता कृतोद्यमा धर्मम्प्रतीति शेषः ॥ ३० ॥ ततश्च - मूलम् — वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । संसारसायरं घोरं, तर कण्णे ! लहुं हुं ॥३१॥ व्याख्या- 'लहुं लहुंति' लघु लघु शीघ्रं शीघ्रम्, सम्भ्रमे द्विर्वचनम् ॥ ३१ ॥ ततः
मूलम् -- सा पवइआ संती, पवावेसी तहिं बहुं । सयणं परिअणं चेत्र, सीलवंता बहुस्सुआ ॥ ३२॥ व्याख्या - 'पद्यावेसित्ति' प्रत्राजयामासेति सूत्रत्रयार्थः ॥ ३२ ॥ तदुत्तरवक्तव्यतामाह-
मूलम् - गिरिं च रेवयं जंती, वासेणोल्ला उअंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिआ ३३
व्याख्या--गिरिं च रैवतं यान्ती, खामिनं नन्तुमिति शेषः । वर्षेण वृष्ट्या 'उलत्ति' आर्द्रा क्लिन्नाम्बरा, अन्तरा - र्द्धमार्गे 'वासंतेत्ति' वर्षति मेघे इति गम्यं, अन्धकारे प्रकाशरहिते, लयनस्य गिरिगुहाया अन्तर्मध्ये, सा राजीमती स्थिता ॥ ३३ ॥ तत्र च -
मूलम् - चीवराई विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ॥३४॥
व्याख्या -- चीवराणि विसारयन्ती विस्तारयन्ती सा यथाजाता अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां 'पासिअत्ति' दृष्ट्वा रथनेमिर्भनचित्तः संयमम्प्रत्यभूत् । स हि तामप्रतिरूपरूपां निरूप्याभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चादृष्टश्च तया राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविष्टैर्हि नान्धकारे किञ्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति भावः ॥ ३४ ॥
मूलम् - भीआय सा तहिं दहु, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसीअइ ॥३५॥