________________
276
उत्तराध्ययन
॥ अथ द्वाविंशमध्ययनम् ॥
॥ॐ॥उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्स चायं सम्बन्धोऽनन्तराध्ययने विविक्तचर्योक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम्मूलम्-सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवित्ति नामेणं, रायलक्खणसंजुए ॥१॥
व्याख्या-राजलक्षणानि चक्रवस्तिकाङ्कशादीनि शौर्योदार्यादीनि वा, तैः संयुतो राजलक्षणसंयुतः ॥१॥ मूलम्-तस्स भज्जा दुवे आसि, रोहिणी देवई तहा । तासिं दोण्हंपिदो पुत्ता, इट्टा रामकेसवा ॥२॥
व्याख्या-'दुवे आसित्ति' द्वे अभूतां 'तासिति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ॥ २॥ मूलम्-सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नाम, रायलक्खणसंजुए ॥३॥
व्याख्या-इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ॥ ३ ॥ मूलम्-तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे। भयवं अरिट्टनेमित्ति, लोगनाहे दमीसरे॥४॥
व्याख्या-'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेष प्रतीतमेवमप्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्र प्रसङ्गागतं श्रीनेमीश्वरचरितं किञ्चिदुच्यते, तथा हि
अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् ॥ निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः ॥ १॥ सधर्मचारिणी तस्य, धारिणीसंज्ञिकाऽभवत् ॥ तयोश्चाभूत्सुतश्चत-खप्नाख्यातो धनाभिधः ॥ २ ॥ कलाकलापमासाद्य, स प्राप्तो यौवनं क्रमात् ॥ रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ॥ ३॥ सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् ॥ रूपाधरीकृतरति, रतिदा दर्शनादपि ॥ ४ ॥ पट्टालिखिततद्रूपं, वीक्ष्यात्सन्तानुरागिणीम् ॥ धनः कनी धनवती-मुपयेमेऽन्यदा मुदा ॥ ५॥ [ युग्मम् ] श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् ॥ ग्रीष्ममध्यन्दिनेन्येधु-वनोद्देशं जगाम सः ॥ ६ ॥ तत्र चैकं तृषा शुष्य-द्रसनाधरतालुकम् ॥ धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षितौ ॥७॥ तपःकृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् ॥ मुनि दशतुर्मार्ग-भ्रष्टं धनवतीधनौ ॥ ८॥[ युग्मम् ] ततस्तौ दम्पती साधु, तमुपेस ससम्भ्रमौ ॥ शीतलैरुपचारैर्दाग , व्यधत्ता प्राप्तचेतनम् ॥९॥ तं च खास्थ्यं गतं नत्वा, धनो विनयवामनः॥ भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ॥१०॥ वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् ॥ गुरुगच्छेन संयुक्तो, विहर्तुमचलं पुरा ॥११॥ सार्थाद्भष्टोऽन्यदाटव्यां, मोहाब्राम्यन्नितस्ततः ॥ श्रान्तः क्षुधातृषाक्रान्तो-त्रायातो मूर्छयाऽपतम् ॥ १२ ॥ चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः ॥धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ॥१३॥ किश्चाचामन्तरा चैत्य-मिवाहेद्धममन्तरा ॥ श्लाघ्यं न स्यान्नजन्मेति, प्रयत्यं तत्र धीधनैः ॥ १४॥ इत्युदीये तयोयोग, सम्यक्त्वाणुव्रतादिकम् ॥ श्राद्धधर्म जिनप्रोक्तं, मुनिचन्द्रमुनिर्जगौ ॥ १५ ॥ ततस्तौ प्रत्यपद्येतां, गृहिधर्म तदन्तिके ॥ प्रत्यलम्भयतां तञ्च, गृहे नीत्वाऽशनादिना ॥ १६ ॥ ताभ्यां च धर्मशिक्षाय, रक्षितः स महामुनिः॥ तत्र स्थित्वा कियत्कालं, व्यहात्तिदनुज्ञया ॥ १७॥ तौ तु जायापती शुद्धं, श्राद्धधर्म ततः परम् ॥ पर्यपालयतां स्नेह-मिवान्योन्यमखण्डितम् ॥ १८॥ प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् ॥ वसुन्ध समवासरत् ॥ १९॥ तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः ॥ प्रणम्य भवपाथोधि-नावं शुश्राव देशनाम् ॥ २०॥विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः ॥ प्रव्रज्यामाददे तस्मा-दूरोः प्राज्यमहोत्सवः ॥२१॥ सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात्॥ व्यहापीद्धर्मदानेना-ऽनुगृहन् भविनो बहून् ॥ २२ ॥ व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः ॥ विपद्य तौ च सौधर्मे-ऽभूतां शक्रसमौ सुरौ ॥ २३॥
"इतश्च" भरतेऽत्रैव वैताढ्यो-त्तरश्रेणिशिरोमणौ ॥ सूरतेजःपुरे सूर-नामा खेचरचत्रयभूत् ॥ २४ ॥ तस्य विद्युन्मती विद्यु-न्मेघस्येवाजनि प्रिया ॥ धनजीवश्युतः खर्गा-त्तस्याः कुक्षाववातरत् ॥ २५॥ पूर्णऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् ॥ पिता तस्योत्सवैश्चित्र-गतिरित्यभिधां व्यधात् ॥ २६॥ वर्द्धमानः क्रमान्यासी-कृता इव गुरोः कलाः ॥ स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ॥ २७ ॥