________________
231
उत्तराध्ययन
पिता ! ॥ २४ ॥ तयोः पितापुत्रयोभ, वीक्ष्याचारेऽन्तरं महत् ॥ जाताशंका भ्रशं मामे-त्युवाच श्वशुरं रहः ॥ २५ ॥ द्विजन्महत्याशपथं दत्वा पृच्छामि वः प्रभो ! ॥ पुत्रोऽयं वः शुद्धपक्ष-इयोऽन्यो क्षेति कथ्यताम् ॥ २६ ॥ ततोऽसी शपथच्छेद - भीरुः सूनृतमत्रवीत् ॥ कपिलेन विसृष्टश्व, जगाम ग्राममात्मनः ॥ २७ ॥ सत्याथ गत्वा श्रीषेण - नृपमेव व्यजिज्ञपत् ॥ भर्त्ता भूदकुलीनो मे, देव ! दैवनियोगतः ॥ २८ ॥ तस्मान्मोचय मां तेन, मुक्ता हि प्रव्रजाम्यहम् ॥ ततः कपिलमाहूय, प्रोवाचेति महीपतिः ॥ २९ ॥ धर्मकर्मोद्यतां मुख, विरक्तां ब्राह्मणीमिमाम् ॥ किमस्यां हि विरकाय, भाषि भोगसुखं तब | ॥ ३० ॥ सोवादीदेव नैवैन, निजां त्यक्षामि कामिनीम् ॥ न क्षमोऽस्मि क्षणमपि, विनासुष्या हि जीवितुम् ॥ ३१ ॥ भामा प्रोचे यद्यसौ मां, न जहाति तदा म्रिये ॥ व्याजहार ततो राजा, सुधा मा त्रियतामयम् ॥ ३२ ॥ किन्तु तिष्ठत्वसौ कश्चि-श्कालं कपिल ! मनुहे ॥ एवमस्त्विति सोप्यूचे, तां बलान्नेतुमक्षमः ॥ ३३ ॥ सत्या सत्याशया राज्ञा, पट्टराइयोस्ततोऽर्पिता ॥ तस्थौ खच्छमनस्तत्रा- चरन्ती दुश्वरं तपः ॥ ३४ ॥ अन्यदाsनन्तमतिकां वीक्ष्य वेश्यां मनोहराम् ॥ इन्दुषेण विन्दुषेणा - षभूतामनुरागिणी ॥ ३५ ॥ तां च कामयमानौ तौ, सुरभिं वृषभाविव ॥ सोदरावपि सामव, युध्येते स्य परस्परम् | ॥ ३६ ॥ तद्वीक्षितुं निरोद्धुं चा-प्रभूः श्रीषेणभूविभुः ॥ विपेदे पद्ममात्राय, विषमिश्रं पातुरः ! ॥ ३७ ॥ व्यपद्येतां तथैवाभि - नंदिताशिखिनन्दिते । शिश्राय कपिलागता, सत्यभामाऽपि तत्पथम् ॥ ३८ ॥ चत्वारोऽपि विपथैव-मतीव सरलाशयाः ॥ युग्मिनो जज्ञिरे जम्बूद्वीपोत्तरकुरुष्वमी ॥ ३९ ॥ पुंस्त्रीरूपं युग्ममेकं तत्र भूपाभिनन्दिते ॥ अभूत्तदन्यत्तु शिखि - नंदिता कपिलप्रिये ॥ ४० ॥ कोशत्रयोच्छ्रयास्ते च, पल्यत्रितयजीविताः ॥ तुर्येऽहनि कृताहारा, व्यतीयुः समयं सुखम् ॥ ४१ ॥
इतश्च युध्यमानौ तौ श्रीषेणनृपनंदनौ ॥ कोऽपि विद्याधरोभ्येत्य, विमानस्थोऽब्रवीदिति ॥ ४२ ॥ अज्ञानाज्जामिमनां भो ! युवां भोक्तुमुद्यतौ ॥ मा युध्येथां मुधा वाक्यं, हितेच्छाः श्रूयतां मम ॥ ४३ ॥ द्वीपेत्रैवास्ति विजयो, विदेहे पुष्कलावती ॥ तद्वैताढ्योत्तर श्रेण्या - मादित्याभपुरं वरम् ॥ ४४ ॥ नृपः सुकुण्डली तत्रा - ऽजितसेना च प्रिया ॥ अहमस्मि तयोः सूनु-र्नामतो मणिकुण्डली ॥ ४५ ॥ अन्यदाहं गतो व्योम्ना, नगरीं पुण्डरीकिणीम् ॥ भूरिभक्त्याऽमितयशो - नामानमनमं जिनम् ॥ ४६ ॥ खेचरोऽहं कुतोऽभूव- मित्यपृच्छं च तं प्रभुम् ॥ सर्वशोऽपि ततः प्रोचे, सुधामधुरया गिरा ॥ ४७ ॥ पुष्करद्वीपपश्चार्द्धे, शीतोदापाच्यरोधसि ॥ विजये सलिलावय, वीतशोकास्ति पूर्वरा ॥ ४८ ॥ चक्री रत्नध्वजस्तत्र रूपमीनध्वजोऽभवत् ॥ तस्याभूतां प्रिये हेम - मालिनी कनकश्रिय ॥ ४९ ॥ तत्राद्या सुपुत्रे पुत्र, पद्म नामापरा पुनः ॥ पुत्रीद्वितयं कनक - लतापद्मलताभिधम् ॥ ५० ॥ पद्मा पद्माद्वितीयश्री- द्वितीयेऽपि वयस्यहो ॥ जग्राहाजित सेनार्या - सन्निधौ दुर्द्धरं व्रतम् ॥ ५१ ॥ चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः ॥ बेश्यार्थ युध्यमानौ चा-ऽन्यदा पश्यनृपाङ्गजौ ॥ ५२ ॥ दध्यौ चैवमहो ! अस्याः, सौभाग्यं
१ तुर्याहनि - इति 'घ' पुस्तके ॥
मुबनाद्भुतम् ॥ यदर्थमेतौ युध्येते, कुमारी मारसुन्दरी ॥ ५३ ॥ महिनाऽमुष्य तपस - तन्ममाप्यन्यजन्मनि ॥ भूयासौभाग्यमीक्षं, निदानमिति सा व्यधात् ॥ ५४ ॥ प्रान्ते चानशनं कृत्वा, सौधर्मे चाभवत्सुरी ॥ बिमाता या पुनस्तस्याः, कनकश्रीरभूत्तदा ॥५५|| सा तु सृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे ॥ दानादि पुण्यं त्वमभूः खेचरो मणिकुण्डली ॥ ५६ ॥ क्रमाद्विपद्य कनक - लतापघलते तु ते ॥ भवं भ्रांत्वा प्राग्भवे च, विधाय विविधं शुभम् ॥ ५७ ॥ द्वीपस्यास्यैव भरते, पुरे रमपुराव्हये ॥ इन्दुषेणनिन्दुषेणौ जातौ श्रीषेणराद्रसुतौ ॥ ५८ ॥ [ युग्मम् ] पद्माजीवो दिवभ्युत्वा तत्रैव गणिकाऽभवत् ॥ इन्दुषेणबिन्दुषेणो, युभ्येते तत्कृतेऽधुना । ॥ ५९ ॥ श्रुत्वेति प्रागूभवान् सोऽहं, युवां युद्धान्निषेधितुम् ॥ इहागां तद्विबुध्येथां मा युध्येथां खसुः कृते ॥ ६० ॥ माताहं युवयोः पूर्वमधे वेश्या त्वसौ स्वसा ॥ तद्धि मोहं विहायाशु, श्रयेथां शुद्धिकृद्रतम् ॥ ६१ ॥ ततस्तौ साधुसाध्वावां, बोधिताविति वादिनौ ॥ सहस्त्रैर्भूमिनाथानां चतुर्भिः परिवारितौ ॥ ६२ ॥ गुरोर्धर्मरुचेः पार्श्वे, दीक्षामादाय घीधनौ ॥ तवा चिरं तपो घोर-मगातां परमं पदम् ॥ ६३ ॥ [ युग्मम् ] अथ श्रीषेणजीवाद्या-धत्वारस्तेपि युग्मिनः ॥ आयुः प्रपूर्य सौधर्म - स्वर्गमीयुः सुखास्पदम् ॥ ६४ ॥ इतमात्रैव मरते - ऽभवद्वैतान्यभूषरे || श्रीरथनूपुरचक्र-वालाई पुर मुत्तमम् ॥ ६५ ॥ तत्रार्ककीर्त्तिर्नामासीत्, खेचरेन्द्रो महाबलः । ज्योतिर्माला च तस्याऽभू-प्राज्ञीन्दोरिव रोहिणी ॥ ६६ ॥ खसा खयंप्रभा तस्या-मवर्त्ता चादिमो हरिः ॥ त्रिपृहः पोतनाधीशः, परिणिन्येऽचलानुजः ॥ ६७ ॥