SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 220 उत्तराध्ययन ज्ञात एव ज्ञातकः क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानल विध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां संपन्नो यः स तथा, अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीर्यः, इति सूत्रार्थ। ॥ २४ ॥ तेषां फलमाह - मूलम् - पडंति नरए घोरे, जे नरा पावकारिणो । दिवं च गईं गच्छति, चरिता धम्ममारिअं ॥ २५ ॥ व्याख्या - पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कई शीलं येषां ते पापकारिणः, दिव्यां देवसम्बन्धिनीं सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं ततोऽसत्प्ररूपणां हित्वा सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ॥ २५ ॥ अथ कथममी पापकारिणः इत्याह मूलम् - मायाबुइअमेअं तु, मुसाभासा निरत्थिआ। संजममाणोवि अहं, वसामि इरिआमि अ ॥२६॥ व्याख्या - मायया शाट्येन 'बुइअंति' उक्तं मायोक्तं एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च मायोक्तमेवेत्यत्र योज्यः, अत एव तेषां मृषा भाषा, निरर्थिका सम्यगभिधेयशून्या, ततः 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्त्तुं वसामि तिष्ठामि उपाश्रय इति शेषः, 'इरिआमिअत्ति' ईरे च गच्छामि च गोचरादाविति सूत्रार्थः ॥ २६ ॥ कुतस्त्वं तदुक्ताकर्णनादुपरमसि ? इत्याह मूलम् - सवे ते विइआ मझं, मिच्छादिट्ठी अणारिआ । विजमाणे परे लोए, सम्मं जाणामि अप्पर्थं ॥२७॥ व्याख्या - सर्वे ते क्रियादिवादिनो विदिता मम यथाऽमी मिथ्यादृष्टयः तत एवानार्याः पशुहिंसाद्य नार्य कर्मप्रवृत्ताः, कथमीदृशास्ते तव विदिताः १ इत्याह - विद्यमाने परलोकेऽन्यजन्मनि सम्यग् जानाम्यात्मानं भवान्तरादागतं, ततः परलोकात्मनोः सम्यग् वेदनान्मम ते तारशा विदितास्ततोऽहं तदुक्ताकर्णनादेः संयच्छामि इति सूत्रार्थः ॥ २७ ॥ कथमात्मानमन्यभवादागतं वेत्सीत्याह मूलम् - अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पाली महापाली, दिवा वरिसस ओवम ॥॥२८॥ व्याख्या- 'अहमासित्ति' अहमभूवं महाप्राणे ब्रह्मलोक विमाने घुतिमान् वर्षशतजीविना उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपीसमासः, अयमर्थो यथेह सम्प्रति वर्षशतजीवी पूर्णायुरुच्यते तथाऽहमपि तत्र पूर्णायुरभूवं, तथाहि - या सा पालिवि पालिः जीवितजलधारणाद्भवस्थितिः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली सागरोपमप्रमाणा, तस्या एव महत्वात्, दिवि भवा दिव्या वर्षशतैः केश खण्डोद्वारहेतुभिरुपमा अर्थात् पत्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापाली दशकरूया दिव्या भवस्थितिरासीदित्युपस्कारः, ततम्बाई वर्षशतोपमायुरभूवमिति भावः ॥ २८ ॥ मूलम् - सेचुए बंभलोआओ, माणुस्सं भवमागओ । अप्पणो अपरेसिं च, आउं जाणे जहा तहा ॥२९॥ व्याख्या - से इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकात् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशय मुक्त्वाऽतिशयान्तरमाह - आत्मनश्च परेषाञ्च आयुर्जानामि, यथा येन प्रकारेण स्वात्तथा तेनैव प्रकारेण म स्त्वन्यथेति भाव इति सूत्रद्वयार्थः ॥ २९ ॥ इत्थं प्रसङ्गादपृष्टमपि ववृत्तान्तमाचरूयोपदेष्टुमाहमूलम् - नाणारुइं च छंदं च, परिवज्जिज्ज संजए । अणट्ठा जे अ सवत्था, इइ विजामणुसंचरे ॥३०॥ व्याख्या - नानाऽनेकधा रुचि च प्रक्रमात् क्रियावाद्यादिमतविषयां वाञ्छां छन्दम स्वमतिकल्पितमाशयं, इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः । तथाऽनर्था निःप्रयोजनाः ये च व्यापारा इति गम्यं, 'सवत्था' अत्राकारस्यालाक्षणिकत्त्वात्सर्वत्र क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवं रूपां विद्यां सम्यग्ज्ञानरूप अनु लश्रीकृत्य सञ्चरेः सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ॥ ३० ॥ तथा मूलम् - पडिकमामि परिणाणं, परमंतेहिं वा पुणो । अहो उडिए अहोरायं, इइ विज्जा तवं चरे ॥ ३१ ॥ व्याख्या - प्रतिक्रमामि प्रतिनिवर्त्ते 'पसिणाणंति' प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽनुप्रमादिभ्यः, तथा पेर गृहस्था
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy