SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ उत्तरायवनक्षम् धिनं, 'नेत्तत्ति' नेत्रशब्देनात्र नेत्रसंस्कारकं समीराअनादि परिगृह्यते, सानमपत्याद्यर्थ मंत्रौषधसंस्कृतजलैरमिपेकः, बमनादीनां नानान्तानां समाहारद्वंद्वः, 'आउरे सरणंति"सुपव्यत्ययादातुरस्य सतः स्मरणं, हा तात हा मातरित्यादिरूपं, चिकित्मितश्चात्मन्गे रोगप्रतिकाररूपं, तदिति सर्व पूर्वोक्तं 'परिण्णायत्ति' ज्ञपरिजया ज्ञात्वा प्रत्याख्यानपरि. या च प्रत्याख्याय परिव्रजेत् संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ॥ ८॥ तथामूलम्-खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो। नो तेसिं वयइ सलोगपू, तं परिणाय परिवए स भिक्खू ॥९॥ व्याख्या-क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकादयः, राजपुत्रा नृपसुतादयः, एतेषां इंद्वः । माहना ब्रामणाः, भोगिका विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक्, विविधाच शिल्पिनः स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति श्लोकप्रजे. तत्र श्लोको यथा शोभना एते, पूजा यथैतान पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु तत् श्लोकपूजादिकं द्विविधयापि परिज्ञया परिज्ञाय परिप्रजेद्यः स मिक्षुरिति सूत्रार्थः ॥९॥ किञ्च मूलम्-गिहिणो जे पवइएण दिहा, अपव्वइएण व संथुआ हविज्जा । तेसिं इहलोइअफलठ्ठा, जो संथवं न करेइ स भिक्खू ॥ १० ॥ ब्याख्या-गृहिणो ये प्रप्रजितेन दृष्टा उपलक्षणत्वात्परिचिताथ, अप्रव्रजितेन पा रहस्यावखेन वा सह संतुतार परिचिता भवेयुः 'तेसिति' सुव्यत्ययाचैः सह ऐहलौकिकफलार्थ वनादिलामनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रायः ॥ १०॥ तथा मूलम्-सयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं। अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ॥ ११ ॥ व्याख्या-शयनासनपानभोजनं विविधं खादिमखादिम 'परेसिंति' परैहस्यैः 'अदएत्ति' अददभिः प्रतिषिद्धः कचित्कारणान्तरे याचमानोपि निराकृतो निर्ग्रन्थो बासाभ्यन्तरमन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीतिवाचकक्षपकवत् । स भिक्षुरिति सूत्रार्थः ॥ ११॥ मूलम्-जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लहूं। - जो तं तिविहेण नाणुकपे, मणवयकायसुसंतुडे स भिक्खू ॥ १२॥ प्याख्या-यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविध खादिसखादिम 'परेसिंति' परेभ्यो गृहस्पेभ्यो लब्ध्या प्राप्य यः साधुः 'तंति' सुव्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाकायरूपप्रकारत्रयेण नानुकम्पते वालग्लानादी. बोपकुरुते न स भिक्षुरिति शेषः । यस्तु सुसंवृतमनोवाकायः सन् , तेन बालादीननुकम्पते इति गम्यते, स मिथुरिति
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy