________________
॥ १९८ ॥
उतराध्ययनसूत्रम्
बसन्तीत्येवंशीला एकविमानवासिनः, पुरे नगरे पुराणे चिरन्तने 'इषुकार' नाम्नि ख्याते प्रसिद्धे समृद्धे सुरलोकरम्मे ॥ १ ॥ खमात्मीयं कर्म पुण्यप्रकृतिरूपं तस्य शेष उद्धारितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उबेषु, चः पूरणे, ते शते ये देवा भूत्वा च्युतास्ते प्रसूता उत्पन्नाः । 'निविणत्ति' आर्पत्वान्निर्विण्णा उद्विग्नाः संसारभयात् 'जहायति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षमं आश्रयं प्रपन्नाः अभ्युपगताः ॥ २॥ सेषु कः किंरूपो जिनेन्द्रमार्ग प्रपन्न इत्याह- पुंस्त्वं पुरुषत्वमागम्य 'कुमारति' कुमारौ अकृतपाणिग्रहणौ द्वौ, अपिः पूरणे, मुलभवोधिकतयाऽन्येषां च बोधिलाभ हेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु' नामा तृतीयः, तस्य 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्व विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पंचमः 'इत्यचि' अत्रैव भत्रे देवीति प्रधानभार्या, प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाना षष्ठ इति सूत्रत्रयार्थः ॥ ३ ॥ अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह
मूलम् - जाईज रामचुभयाभिभूआ, बहिंविहाराभिणिविठ्ठचित्ता । संसारचक्कस विमोक्खणट्टा, दगुण ते कामगुणे विरता ॥ ४ ॥ पिअपुत्तगा दोणिवि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरितु पोराणि तत्थ जाई, तहा सुचिण्णं तवसंजमं च ॥ ५ ॥
व्याख्या - जाति जरामृत्युभयाभिभूतौ वहिः संसाराद्विहारः स्थानं वहिर्विहारः स चार्यान्मोक्ष एव तस्मिन्नमिनिविष्टं बद्धाग्रहं चित्तं ययोस्तौ तथा, संसारचक्रमिव संसारचक्रं, तस्यविमोक्षणार्थ त्यागार्थ दृष्ट्वा साधूनिति शेषः । सावनन्तरोक्तौ कामगुणे कामगुणविषये विरक्तौ ॥ ४ ॥ 'पिअपुत्तगत्ति' प्रियो वल्लभौ पुत्रावेव पुत्रकौ, प्रियौ च तौ yant च प्रियपुत्रौ द्वावपि माहनस्य द्विजस्य स्वकर्मशीलस्य यजनाद्यनुष्ठानरतस्य पुरोहितस्य शान्तिकर्तुः 'सरिसुति' स्मृत्वा पौराणिकीं चिरन्तनीं तत्रेति सन्निवेशे जातिं जन्म जातिस्मरणं प्राप्येत्यर्थः ॥ तथा सुचीर्ण निदानादिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे विरक्ताविति योग इति सूत्रद्वयार्थः ॥ ५ ॥ ततस्तौ यदका तदाह
मूलम् — ते कामभोगेसु असज्जमाणा, माणुस्सएसुं जे आवि दिना । मोक्खाभिकखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ॥ ६ ॥ व्याख्या - तौ पुरोहितसुतौ कामभोगेषु 'असज्ज माणत्ति' असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकांक्षिणी अभिजात श्रद्धा उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं 'उदाहुत्ति' उदाहरतां उक्तवन्ताविति सूत्राक्षरार्थः ॥ ६ ॥ भावार्थस्त्वेषां सूत्राणां कथानकादवसे यस्तत्सम्प्रदायश्चायं, तथाहि
चित्रसम्भूतयोः पूर्व-भवे यौ सुहृदावुभौ ॥ अभूतां बेलवौ साधु-सेवाध्वस्त विपलवौ ॥ १ ॥ तावपि व्रतमाराध्या-भवतां भासुरौ सुरौ ॥ त्रतं हि चेन्न मोक्षाय, तर्हि स्वर्गाय जायते ॥ २ ॥ क्षितिप्रतिष्ठितपुरे, तावभूतां तत*युतौ ॥ सोदराविभ्यतनयौ, सुन्दरावाश्विनाविव ॥ ३ ॥ इभ्यपुत्रास्तयोस्तत्र, चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे सुहृदः पुण्य - शालिनां सुलभा हि ते ॥ ४ ॥ उपभुज्य चिरं भोगांस्ते षडप्यन्यदा मुदा ॥ श्रुत्वा धर्म गुरूपान्ते, प्राव्रजन् विजितेन्द्रियाः ॥ ५ ॥ पालयित्वा चिरं दीक्षा-मधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते, ते विपद्य महर्षयः ॥ ६ ॥ विमाने पद्मगुल्माहे, प्रथमत्रिदिवस्थिते ॥ जज्ञिरे त्रिदशश्रेष्ठा - चतुःपल्योपमायुषः ॥ [ युग्मम् ] तत्रापि विविधैर्भोगै-रतिवाशायुरात्मनः ॥ गोपजीवामरौ मुक्त्वा ऽच्यवन्त प्राक्सुराः परे ॥ ८ ॥ तेष्वेकः कुरुदेशोर्वी-ललनामौलिभूषणे ॥ इषुकारपुरे भूमा-निषुकाराभिधोऽभवत् ॥ ९ ॥ अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमीं- गतेव जैयवाहिनी ॥ १० ॥ तस्यैवासी तृतीयस्तु, पुरोधा भृगुसंज्ञकः ॥ पुरोधसोऽभवद्भार्या, तुरीवस्तु यशाभिधा ॥ ११ ॥ पुरोहितस्य तस्याभूकालेपि न यदाङ्गजः ॥ तदा तचिन्तयात्यन्त-मन्तः स व्याकुलोभवत् ॥ १२ ॥ दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥ १३ ॥ दैवज्ञपृच्छां देवोप-याचितानि च सोन्वहम् ॥ व्यधात् पुत्रार्थमार्त्तो हि, देवादीन् बहु सेवते ॥ १४ ॥
१ गोपौ । २ इन्द्राणी |