SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ॥१९॥ उत्तराप्ययनस्त्रम् अपि मारभूता, वहन्ति लोका विगलद्विवेकाः ॥ १३ ॥ इति श्रेष्ठिसुतवधूकथा ॥ तथा सर्वे कामा दुःखावहा मृगा. दीनामिवायतौ दुःखदायित्वान्नरकहेतुत्वाचेति ॥ १६ ॥ तथा मूलम्बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !। विरत्तकामाण तवोधणाणं, जं भिक्खुणं, सीलगुणे रयाणं ॥ १७ ॥ न्याख्या-बालानां मुढानां अभिरामा मनोहरा बालाभिरामास्तष दःखावहेष दाखप्रापकेष न तत्सखं कामगणेषु मनोजशब्दादिषु सेव्यमानेष्वपि हे राजन् ! किं तदित्याह-यत्सुखं "विरत्तकामाणंति" कामविरक्तानां तपोषनानां भिषणां शीलगुणे रतानां स्यादिति शेष इति सूत्रद्वयार्थः ॥ १७ ॥ अथ धर्मफलोपदर्शनेनोपदेष्टुमाह मूलम्-नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं। जहिं वयं सब जणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥ १८ ॥ न्याख्या-हे नरेंद्र ! चक्रवर्त्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्रपाकजातिं “दुहओत्ति"द्वयोरप्यावयोर्गतयोः, अयं भावः-यदाऽऽवां श्रपाकजातावुत्पन्नौ तदावयोः सर्वजनगर्हिता जातिरासीत, कदाचित्ताप्राप्यापि ज. न्यत्रोषितौ स्यातामित्याह-यस्यां वयमित्यावां,प्राकृतत्वाद्वहुवचनं,सर्वजनस्य द्वेष्यावप्रीतिकरौ“वसीअत्ति"अवसाव उपिताविति यावत् , श्रपाकनिवेशनेषु चाण्डालगृहेषु ॥१८॥ कदाचित्तत्रापि कलाविशेषादिना अहीलनीयो स्यातामित्याह मूलम्-तीसे अ जाईइ उ पाविआए, वुच्छा मु सोवागनिवेसणेसु । सबस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माइं पुरेकडाई ॥ १९ ॥ न्याख्या-तस्यां च जातो अपचसम्बन्धियां, तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिष्टि, पापैव पापिका कुत्सिता तस्यां 'वुच्छत्ति' उषितौ 'मु' इत्यावां श्रपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयौ हीलनीयौ 'इहंति' अस्मिन् जन्मनि, तुः पुनरर्थः, तत इह पुनः कर्माणि शुभानुष्ठानानि 'पुरे कडाइंति' पुराकृतानि शुभजात्यादेर्निबन्धनमिति शेषः, ततो जातप्रत्ययैः पुनरपि तदर्जनायैव यत्नः कार्यो न तु विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ॥ १९॥ एतदेव दर्शयति मूलम् सो दाणिसिं राय महाणुभागो, महिडिओ पुण्णफलोववेओ। चइत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥ २०॥ पाख्या-'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं 'दाणिसिंति' इदानीं राजा महानुभागो महर्दिकः पुण्यफलोपपेतच सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्साह-त्यत्तवा भोगानशावतान् , आदीयते शमते सद्विवेकैरित्यादानश्चारित्रधर्मस्ततोरभिनिष्काम आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः ॥ २०॥ इत्थमकरणे को दोषः १ इत्याहमूलम्-इह जीवीए राय असासयंमि, धणिअं तु पुण्णाई अकुबमाणो। से सोअई मचुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥ २१ ॥ व्याख्या-इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वते अस्थिरे 'धणिअंतुत्ति' अतिशयेनैव न तु केतुप्रान्तपपश्चलतामात्रेण, पुण्यानि शुमानुष्ठानान्यकुर्वाणः 'सेत्ति' स पुण्यानुपार्जको जन्तुः शोचति पश्चात्तापं विधत्ते, मृत्युमुखं मरणावसरमुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् धर्ममकृत्वा 'परम्मित्ति' चस्स गम्यत्वात्, परसिंघ लोके जन्मान्तररूपे गत इति शेषः, नरकादौ हि असमासातवेदनार्दितः शशिनृपवत्किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ॥ २१॥ न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य खजनादवसाणाय भाविन इत्याह मूलम्-जहेह सीहो व मिअं गहाय, मन्चू नरं नेइ हु अंतकाले। ___ न तस्स माया व पिआ व भाया, कालंमि तम्मि सहरा भवंति ॥ २२ ॥ व्याख्या-यथेत्यौपम्ये इहलोके सिंहो मृगारिति पूरणे मृगं हरिणं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं मृत्युर्यमो नरं मानवं 'नेइ हुत्ति' नयत्येव, अन्तकाले आयुःक्षयावसरे, न च तस्य मृत्युना नीयमानस माता
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy