________________
उतराष्यवनसूत्रम
॥ १८७ ॥
तहि वरधनो ! त्वं कुत्रास्ति ब्रह्मदत्त इति १ ॥ २१५ ॥ विश्वस्य तस्य विश्वां त्वार्त्ता सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः, पाश्चात्यं वृत्तमित्यूचे ॥ २१६ ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् ॥ तां सत्र सुरंगों, तुरगपदानि च पुरस्तस्याः ॥ २१७ ॥ नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै ॥ प्रत्याशमश्ववा - रान, युष्मन्निग्रहकृते प्रैषीत् ॥ २१८ ॥ नष्टो धनुरिति जननीं, तवाक्षिपत् श्वपचपाटके दीर्घः ॥ सा नरकावास हुवा-नुभवति तत्र व्यथाः प्रचुराः ॥ २१९ ॥ तेनोदन्तेनोचे - दुःखोपरिजायमानदुःखार्त्तः ॥ उद्धर्त्तु व्यसनाच्धेfart काम्पील्यनगरमगाम् ॥ २२० ॥ तत्र च कपालिरूपं कृत्वाटं श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोत्रवं चैवम् ॥ २२९ ॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन मैत्रीमकामारक्षकेण समम् ॥ २२२ ॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहात्रतीसुतसुहृत्ते ॥ इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ॥ २२३ ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ॥ तद्भक्षणेन साजनि, निश्चेष्टा काष्ठमूर्त्तिरिव ॥ २२४ ॥ आरक्षकोथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः ॥ तां संस्कर्त्तु प्रैषी-गुत्यानथ तेपि
गुः ॥ २२५ ॥ सम्प्रति संस्कारेऽस्याः कृते महान् भाव्युपद्रवो भवताम् ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ॥ २२६ ॥ आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्याः ॥ कुणपेन लक्षणवता, मंत्रमहं साधयाम्येकम् ॥ २२७ ॥ तत्प्रतिपन्नेन समं तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवन - गुरुमण्डलमालिखं दम्भात् ॥ २२८ ॥ शून्यं विधिं च कञ्चिद्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेप्यारक्षं गुटिका - मार्पयमपरामहं मातुः ॥ २२९ ॥ अथ तत्क्षणमुत्तस्था - वपगतनिद्रेव लब्धसंज्ञा सा ॥ आवेद्य खं तामथ, निवार्य रुदतीं ततोचलयम् ॥ २३० ॥ मुक्त्वा कच्छग्रामे, तातसुहृद्देवशर्म वेश्मनि ताम् ॥ त्वामन्वेष्टुं भ्राम्य-न्निहागमं भाग्ययोगेन ॥२३१॥ नाथ ! त्वयानुभूतं सुखदुःखं यत्ततःपरं वद तत् ॥ तेनेत्युक्तोवादी-त्वं वृत्तं ब्रह्मदत्तोपि ॥ २३२ ॥ अथ कोप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाङ्कित - पटयुगदर्शनपरा ब्रुवते ॥ २३३ ॥ ईदृशरूपी पुरुषौ ष्टी कापीति तन्निशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतमात्महितम् ॥ २३४ ॥ प्रोच्येति गते तस्मिन्नश्यन्तौ तावरण्यमध्येन ॥ क्रमयोगात्कौशाम्बी - पुर्या उपवनमुपागाताम् ॥ २३५ ॥ तत्र पणीकृतलक्षं, चरणायुधरणमपश्यतां धनिनोः ॥ बुद्धिलसागरदत्ता - भिधयोः शस्त्रायितांघ्रिनखम् ॥ २३६ ॥ तत्र च बुद्धिलचरणा - युधेन जात्येपि कुक्कुटेऽन्यस्मिन् ॥ भने वरधनुरसम - असाऽसहः सागरमदोऽवक् ॥ २३७ ॥ जात्योपि कुक्कुटोसो, भनस्तव सागरामुनापि कथम् १ ॥ तद्यदि वदसि तदाहं विलोकयाम्येनमादाय ॥ २३८ ॥ सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तर्न तु धनापगमः ॥ २३९ ॥ वरधनुरथ तं पश्यन् ददर्श तच्चरणयोरयः सूचीः ॥ तच ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ॥ २४० ॥ यदि मे छद्म न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येहम् ॥ तेनेत्युक्तो वरधनु-रूचे तद्रहसि भूपभुवे ॥ २४१ ॥ सूचीः कृष्ट्वा स ततस्तं सागरकुकुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल - कुक्कुटमपरो द्रुतमजैषीत् ॥ २४२ ॥ तुष्टोय सागरस्ता - वारोप्य रथं वमन्दिरमनैषीत् ॥ खगृह इव तद्गृहे ता - वपि तस्थतुरुचितलीलाभिः ॥ २४३ ॥ बुद्धिलदासस्तत्रा-गतोन्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ॥ २४४ ॥ तत्स्थाने तेनासौ, हारः प्रहितोस्ति चतुरयुतमूल्यः ॥ इत्थं प्रोच्य करण्डं दत्वा च यथागतः सोगात् ॥ २४५ ॥ वरधनुरपि गत्वा तन्निवेद्य निखिलं करण्डमुद्घाट्य || मौक्तिकरुचिजितसितरुचि - मदीदृशन्नृपभुवे हारम् ॥ २४६ ॥ हारे हारिणि तत्राव - लम्बितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ २४७ ॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भावी ॥ तेनेत्युदितो गाढो-त्सुकोभवद्भूपभूर्ज्ञातुम् ॥ २४८ ॥ लेखं तमथो वरधनु - रुन्मुद्रयति सा नलिनमिव तरणिः ॥ आर्यामेकां लिखितां, तत्र ददर्शालिपंक्तिमिव ॥ २४९ ॥ सा चेयं - " यद्यपि जनोर्थ्यते सौ, जनेन संयोगजनितयत्वेन ॥ त्वामेव हि रत्नवती, तथापि मानयितुमभिलषति ॥ २५० ॥” भावार्थोऽस्या ज्ञेयः, referre araat विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ।। २५१ ॥ आशीर्वाद दत्वा बिस्वा कुमुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनुं, निगद्य किञ्चिच्च सापि ययौ ॥ २५२ ॥ आगतमथ सुहृदं नृप - पुत्रः प्रोचेनया किमुक्तमिति १ ॥ सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्त
१-४०००० ॥