SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ उत्तराप्पयनस्वम् मूलम्- रणो तहिं कोसलिअस्स धूआ, भदत्ति नामेण अणिदिअंगी। तं पासिआ संजयं हम्ममाणं, कुद्धे कुमारे परिनिववेइ ॥ २०॥ व्याख्या-राज्ञो नृपतेस्तत्र यज्ञपाटे कोशलायां भवः कौशलिकलस्य 'धूअत्ति' सुता भद्रेति नामा अनिन्दिताजी मनोजदेहा तं हरिकेशवलं पासित्ति' दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेर्निवृत्तं, हन्यमानं क्रुद्धान कुमारान् परिनिर्वापयति क्रोधामिविध्यापनेन शीतीकरोतीति सूत्रार्थः॥२०॥साच तान्निर्वापयन्ती तस्य प्रभावमतिनिःस्पृहताचाह मूलम्-देवाभिओगेण निओइएणं, दिण्णासु रण्णा मणसा न झाया। ____ नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ २१ ॥ व्याख्या-देवस्थाभियोगो बलात्कारो देवाभियोगस्तेन नियोजितेन व्यापारितेन 'दिण्णासत्ति दत्तास्मि अहं राज्ञा प्रक्रमात्कौशलिकेन तथापि 'मणसत्ति' अपेर्गम्यमानत्वान्मनसापि चित्तेनापि न ध्याता न कामिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्राभिवन्दितेन येनारम्यहं वान्ता त्यक्ता ऋषिणा साधुना स एष युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ॥ २१ ॥ इममेवाथै समर्थयितुमाह मूलम्-एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी। जो मे तया निच्छइ दिजमाणिं, पिउणा सयं कोसलिएण रण्णा ॥ २२ ॥ व्याख्या-'एसो हु सोत्ति 'एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो 'मेत्ति' मां तदा नेच्छति दीयमानां पित्रा जनकेन खयं आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञेति सूत्रार्थः ॥२२॥ इत्यं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह मूलम्-महाजसो एस महाणुभागो, घोरबओ घोरपरक्कमो अ। ___ मा एअं हीलह अहीलणिजं, मा सवे तेएण भे निदहिजा ॥ २३ ॥ व्याख्या-महायशा एष मुनिमहानुभागोऽतिशयाचिन्त्यशक्तिः, घोरवतो धृतदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीदृशस्ततो मा एनं मुनि हीलयत अहीलनीयं, किमिति ? यतो मा सर्वांस्तेजसा तपोमाहात्म्येन भवतो निर्धाक्षीत् भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति सूत्रार्थः ॥ २३ ॥ तदा च मा भूदस्या वचो विफलमिति यक्षो यचके तदाह मूलम्-एताई तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासिआई। इसिस्स वेआवडिअट्टयाए, जक्खा कुमारे विनिवारयति ॥ २४ ॥ व्याख्या-एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा पल्या भार्याया रुद्रदेवपुरोहितस्येति शेषः, भद्रायाः सुभाषितानि सूक्तानि वचनानीति योज्यते, ऋषयावृत्त्यार्थ यक्षा यक्षपरिवारस्य बहुत्वाद्वहुवचनं, कुमारान् विनिपारयन्ति, उपद्रवान् कुर्षतो निराकुर्वन्तीति सूत्रार्थः ॥ २४ ॥ कथं निवारयन्तीत्याह मूलम्-ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वर्मते, पासित्तु भद्दा इणमाहु भुजो ॥ २५ ॥ व्याख्या--ते यक्षा घोररूपा रौद्राकारधारिणः 'ठिअत्ति' स्थिता अन्तरिक्षे नभसि असुरा आसुरभा तस्मिन् यज्ञपाटे तं उपद्रवकरं जनं ताडयन्ति, ततश्च तान् कुमारान् मिन्नदेहान् विदारिताकान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं वमतो दृष्ट्वा भद्रा इदं वक्ष्यमाणं 'आहुत्ति'वचनव्यत्ययादाह ब्रूते, भूयः पुनरिति सूत्रार्थः॥२५॥ तद्यथामु०-गिरि नहेहिं खणह, अयं दंतेहिं खायह । जायते पाएहिं हणह, जे भिक्खं अवमन्नह ॥ २६ ॥ व्यख्या-गिरि नखैः खनथ, इह सर्वत्रेवार्थो द्रष्टव्यस्ततः खनथेव खुनथ, तथा अयो लोहं दन्तैः खादथ, जाततेजसं अमिं पादैहन्यथ ताडयथ, ये यूयं भिक्षु प्रक्रमादेनं अवमन्यध्वे अवधीरयथ, अनफलत्वाद्विपमानखेति सूत्रार्थः ॥ २६ ॥ कथमिदमित्याह मूलम् आसीविसो उग्गतवो महेसी, घोरवओ घोरपरकमो अ। अगणिं व पक्खंद पयंगसेणा, जे भिक्खुअं भत्तकाले वहेह ॥ २७ ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy