SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उत्तराप्ययनसूत्रम् । लोके कीर्तिः मुलब्धमस्य जन्म ! निस्तीर्णो भवाब्धिरनेनेत्यादिका से तस्य जायते प्रादुर्भवति, तथारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, पूज्यप्रसादनाच किं लभ्यते ? इत्याहमूलम्-पुज्जा जस्स पसीअंति, संबुद्धा पुवसंथुआ॥पसण्णा लाभइस्संति, विउलं अहिअंसुअं॥४६॥ व्याख्या-पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यगज्ञाततत्वाः पूर्व वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यक्स्तुता वा सद्भूतगुणोत्कीर्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमस्येत्यार्थिक, श्रुतमङ्गोपाङ्गादिभेदं, अनेन पूज्यप्रसादनस्यानन्तरं फलं श्रुतलाभः, परम्परं तु मोक्ष इति सूचितमिति सूत्रार्थः ॥ ४६ ॥ अथ श्रुतावाप्तौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाहमूलम्- स पुजसत्थे सुविणीअसंसए, मणीरुई चिट्टइ कम्मसंपया ॥ तवोसमायारिसमाहिसंवुडे, महजुई पंचवयाइं पालिया ॥ ४६ ॥ व्याख्या-स इति प्रसादितगुरोः प्राप्तश्रुतः शिष्यः, पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्ठु विनीतोऽपनीतः प्रसादितगुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसःप्रस्तावादूरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा यस्मिन स मनोरुचिर्गरुमनोनवर्ती न त खेच्छाचारीति भावः 'चिट्टाकम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसामाचारी, तस्याः संपत् समृद्धिः कर्मसंपत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तपसो. ऽनशनादेः समाचारी समाचरणं, समाधिश्चेतःखास्थ्यं, ताभ्यां संवृतो निरुद्धाश्रवः तपःसमाचारीसमाधिसंवृतः। महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वेत्याह-पञ्च व्रतानि प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्येति सूत्रार्थः ॥ ४१ ॥ तथामूलम्-स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं ॥ सिद्धे वा हवइ सासए देवे वा, अप्परए महिड्डिएत्तिबेमि ॥४८॥ में उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥१॥ WATER MARATHI PRANAMATPARENEFTERSARANG व्याख्या-स विनीतविनेयो मुनिर्देवैमानिकज्योतिष्कैः, गन्धर्वैश्च गन्धर्वनिकायोपलक्षितैय॑न्तरभवनपतिभिर्मनुष्यैश्च नृपाद्यैः पूजितोऽर्चितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुष्पयंति' मलपको रक्तवीर्ये तत्पूवैकं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वतः सर्वकालावस्थायी, न तु बुद्धादिवत्तीर्थनिकारे पुनरत्रागंता ! । सावशेषकर्मा तु देवो वा भवति, अल्परजाः प्रतनुबध्यमानकर्मा, महती विकुर्वणादिरूपा ऋद्धिर्यस्य स महर्द्धिकः, अविराधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेवोत्पादात्, इति परिसमाप्तौ ब्रवीमि तीर्थकरगणधराधुपदेशेन न तु खबुद्धपैवेति सूत्रार्थः ॥४८॥ യായാലയയായ ദയവ ഇവയി ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती विनयश्रुताख्यं प्रथमाध्ययनं सम्पूर्णम् ॥१॥ லேல்லலைலலை AGAR
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy