________________
उतराध्ययनसूत्रम्
तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्गे गमिष्यति ॥ २ ॥ " इत्यादिकथनादत एव बाला बालक्रीडाकल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात् इदं वक्ष्यमाणं वचनं 'अम्बवित्ति' अब्रुवन्निति सूत्रार्थः ॥ ५ ॥ किं तदित्याह -
मूलम् — कयरे आगच्छइ दित्तरुवे, काले विकराले फोक्कनासे । ओमचेलए पंसुपिसायभूए, संकरसं परिहरिअ कंठे ॥ ६ ॥
व्याख्या- ' कयरेत्ति' कतरः, एकारः प्राकृतत्वात्, आगच्छति, दीप्तरूपो बीभत्साकारः, कालो वर्णतः, विकरालो दन्तुरत्वादिना भीषणः, 'फोक्कत्ति' देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोकनासः । अवमचेलो निकृष्टचीवरः, पांशुना रेणुना पिशाच इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा, पांशुगुण्डितश्च रूढस्ततः सोपि निष्प्रतिकर्मतया रजोदिग्धतया चैवमुच्यते । तथा 'संकर दूसंति' संकरस्तृणभम्म गोमयादिराशिरुत्कुरुडिकेतियावत्, तस्य दूष्यं वस्त्रं संकरदूष्यं तत्र हि यदतीवनिकृष्टं निरुपयोगि स्यात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं परिधृत्य निक्षिप्य कण्ठे गले । स हि अनिक्षिप्तोपधितया खमुपकरणमादायैव भ्रमतीत्येवमुक्तमिति सूत्रार्थः ॥ ६ ॥ इत्थं दूरादागच्छन्नुक्तः, आसन्नं चैनं किमूचुरित्याह
मूलम् —- कयरे तुमं इअ अदंसणिजे, का एव आसा इह मागओसि ।
ओमचेलगा पंसुपिसायभूआ, गच्छ खलाहि किमिह ट्ठिओसि ? ॥ ७ ॥
. व्याख्या -कतरस्त्वं [ पाठान्तरे च 'को रे !' त्वं ? तत्राधिक्षेपे 'रे' शब्दः ] 'इअति' इति अमुना प्रकारेणादर्शनीयोऽद्रष्टव्यः, ‘का एवत्ति' कया वा 'आसाइहमागओसित्ति' प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया वाळया इह यज्ञपाटे आगतः प्राप्तोसि वर्त्तसे ? अवमचेलक ! पांशुपिशाचभूत ! पुनरनयोर्ग्रहणमत्यन्तनिन्दासूचकं, गच्छ व्रज 'खलाहित्ति' देशी भाषया अपसर अस्मद्दृष्टिपथादिति शेषः । किमिह स्थितोसि त्वं १ नैवेह त्वया स्थेयमिति सूत्रार्थः ॥ ७ ॥ एवमधिक्षिप्ते साधौ शान्ततया किञ्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकक्षो यच्चक्रे तदाह
मूलम् - जक्खो तहिं तिंदुरुक्खवासी, अणुकंपओ तस्स महामुणिस्स ।
पच्छायइत्ता निअयं सरीरं, इमाई वयणाई उदाहरित्था ॥ ८ ॥
॥ १७३ ॥
व्याख्या - यक्षः 'तर्हिति' तस्मिन्नवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकवनमध्ये हि महांस्तिन्दुकवृक्षस्तत्रासौ वसति, तस्यैव च तरोरधस्तात्तचैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । अनुकम्पकोऽनुकूलप्रवृत्तिः, कस्येत्याह- तस्य हरिकेशबलस्य महामुनेः, प्रच्छाद्य आवृत्य निजकं स्वकीयं शरीरं मुनिदेह एव प्रविश्य स्वयमनुपलक्ष्यः सन्नित्यथेः, इमानि वक्ष्यमाणानि वचनानि 'उदाहरित्थत्ति' उदाहृतवानिति सूत्रार्थः ॥ ८ ॥ तान्येवाह
मूलम् - समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ ।
परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह मागओम्हि ॥ ९॥
व्याख्या - श्रमणः साधुरहं, संयतः सम्यगुपरतः पापव्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा विरतो निवृत्तो धनपचनपरिग्रहात्, तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्च्छा, अत एव परस्मै परार्थ प्रवृत्तं निष्पन्नं परप्रवृत्तं, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थ निष्पन्नस्य, भिक्षाकाले अन्नस्य अशनस्य 'अट्टत्ति' अर्थाय इह यज्ञपाटे आगतोस्मीति सूत्रार्थः ॥ ९ ॥ अथ ते कदाचिदित्थं ब्रूयुर्यन्नात्र किञ्चित्कस्मैचिद्दीयत इत्याह
मूलम् - विअरिजइ खज्जइ भुज्जइ अ, अन्नं पभूअं भवयाणमेअं ।
जाणा मे जायणजीविणोत्ति, सेसावसेसं लहऊ तवस्सी ॥ १० ॥
व्याख्या - वितीर्यते दीयते दीनादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अन्नमशनं, प्रभूतं भूरि, भवतां युष्माकं सम्बन्धि, एतत्प्रत्यक्षं । तथा जानीतावगच्छत 'मेत्ति' मां 'जायणजीविणोत्ति' याचनजीवितं याचनेन जीवनशीलं, सूत्रे च द्वितीयार्थे षष्ठी, इत्यतो हेतोः शेषावशेषमुद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः,