SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ उचराप्ययनस्त्रम् मूलम्-एअमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥२५॥ मूलम्-संसयं खलु सो कुणइ, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुविज सासयं ॥२६॥ व्याख्या-संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्गे कुरुते गृहं, गमननिमये हि तत्करणायोगात् । ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेत् 'तत्थेति' सावधारणत्वाद्वाक्यस्य तत्रैव कुर्वीत खस्यात्मना आश्रयः खाश्रयस्तं, ततोऽयमर्थः-इदं तावदिहावस्थान मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, यत्तु जिगमिषितमस्माभिर्मुक्तिपदं तदाश्रयविधाने च प्रवृत्ता एवं वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ॥ २६ ॥ मूलम्-एअमढे निसामित्ता, हेउकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥२७॥ मूलम्-आमोसे लोमहारे अ, गठिभेए अतकरे।नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ! २८ व्याख्या-आसमन्तात् मुष्णन्तीत्यामोषाश्चौरास्तान् , लोमहारा ये निर्दयतया खविघातशङ्कया च जन्तून् हत्वैव सर्वखं हरन्ति तांश्च, ग्रन्थिभेदा ये घुर्घरककर्तिकादिना प्रन्थिं मिन्दन्ति तांथ, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीनिगृह्णाति, न्यायी नूपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ २८॥ मूलम्-एअम निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २९ ॥ मूलम्-असई तु मणुस्सेहि, मिच्छादंडो पजुज्जए।अकारिणोत्थ वज्झंति, मुच्चइ कारगोजणो ॥३०॥ व्याख्या-असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैर्नर्मिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः मूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी॥ ३१ ॥ व्याख्या-प्राग्वन्नवरमियद्भिः प्रश्नः स्वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य ति द्वेषाभावपरीक्षाये विजिगीपुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ ३१॥ मूलम्-जे केइ पत्थिवा तुम्भ, न नमंति नराहिवा। वसे ते ठावइत्ताणं, तओ गच्छसि खत्तिआ !॥३२॥ न्याख्या-ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप ! हे राजन् ! वशे आत्मायत्तौ तान् नृपान् स्थापयित्वा वशीकृत्येत्यर्थः, ततो गच्छ क्षत्रिय ! । अनेन च यः समर्थो राजा सोऽनमनृपान् नमयति, समर्थपार्थिवश्व त्वमिति सूचितमिति सूत्रार्थः ॥ ३२॥ मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवो ॥ ३३ ॥ मूलम्-जो सहस्सं सहस्साणं, संगामे दुजए जिणे ।एगं जिणिज अप्पाणं, एससे परमो जओ॥३४॥ व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि संग्रामे दुर्जये जयेदभिभवेत् , स चेदेकं जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एषोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जयत्वमुक्तम् ॥ ३४ ॥ ततश्चमूलम्-अप्पाणमेव जुज्झा हि, किं ते जुज्झेण बज्झओ। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥ व्याख्या-'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यख, किं १ न किञ्चिदित्यर्थः, ते तव युद्धेन बाबत इति बायपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मानं 'जइत्तत्ति' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्रामोति ॥ ३५ ॥ कथमात्मन्येव जिते सुखावासिरित्याहमूलम् -पंचिंदिआणि कोहं, माणं मायं तहेव लोभं च । दुजयं चेव अप्पाणं, सबमप्पे जिए जिअं॥३६॥ व्याख्या–पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोमश्च 'दुजयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते, चः समुचये, एवः पूर्ती, अतति गच्छति अनेकान्यज्यवसायान्तराणीति आत्मा मनः, नपुंसकनि
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy