SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उत्तराप्ययनसूत्रम् ॥१२३॥ णक्खत्ता ॥ निरया अणंत विअणा, पणद्वसदाइविसया य ॥ १॥ इति सूत्रार्थः ॥ १०॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह मूलम्-जहा कागणिए हेडं, सहस्सं हारए नरो॥अपत्थं अंबगंभुच्चा, राया रजंतु हारए ॥ ११ ॥ व्याख्या-यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउंति' हेतोः कारणात्सहनं दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासौ सम्प्रदायः तथा हि दुर्गतः कोऽपि, भ्रामं भ्रामं महीतले ॥ उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ॥ १॥ ववले सह सार्थेन, तदादाय गृहं प्रति ॥ जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ॥ २॥ विधाय काकिणीरेक-रूपकस्य स चाध्वनि ॥ एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ॥ ३ ॥ अन्यदा काकिणीमेकां, विस्मार्य कापि सोऽचलत् ॥ दूरंगतश्चतां स्मृत्वा, चेतसीति व्यचिन्तयत् ॥ ४ ॥ काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे ॥ इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ॥ ५॥ तदेककाकिणीहेतो-रन्यरूपकभेदनम् ॥ प्रातर्भावीति तामेव, व्याघुट्य द्रुतमानये ॥ ६ ॥ ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् ॥ न्यवर्तिष्ट विमूढा हि, खल्पार्थ भूरिहारिणः ! ॥ ७ ॥ गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् ॥ तसिन् गते तु तं हत्वा, ततस्तूर्ण म नष्टवान् ॥८॥ सोऽथ तद्विस्मृतिस्थान-मवाप्सो दुःस्थपूरुषः ॥ तत्रागतेन केनापि, हृतां न प्राप काकिणीम् ॥९॥ ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः ॥ नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ॥ १० ॥ कृच्छालन्धे ततस्तस्मिन् , धने नष्टे म निर्धनः ॥ प्राप्तप्रणष्टनयन, इवोचैर्दुःखमासदत् ॥ ११ ॥ ततः स दुःखातिशयाद्विमूढमना निजं धाम जगाम निःस्वः ॥ अल्पस्य हेतोबहुहारितं खं, निनिन्द चाऽऽपत्तटिनीनिममः ॥ १२ ॥ इति काकिणीदृष्टान्तः॥ __ तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे भिन्नक्रमश्च ततो हारयेदेव, सम्भव येव हि तस्यापथ्यभोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम्__तथा हि पार्थिवः कोऽपि, सहकारफलप्रियः॥बहूनि बुभुजे तानि, रसनारसलोलुपः॥ १॥ तेभ्योऽजीर्णमभूत्तस्म, ततो जज्ञे विसूचिका ॥ अजीर्णं खलुः सर्वेषां, रोगाणामादिकारणम् ॥ २॥ ततस्तं विविधोपायै-रचिकित्संश्चिकित्सकाः, ॥ नीरोगत्वे च जाते ते, प्रोचुरेवं महीपतिम् ॥ ३॥ रोगोयमधुनास्माभिः, शमितोपि कथञ्चन ॥ पुनश्चूतफलाखादे, भावी मृत्युप्रदो द्रुतम् ॥ ४॥ तैरित्युक्तो नृपो दध्यौ, सत्सु माकन्दशाखिषु ॥ नाहं शक्ष्यामि हातुं तत्-फलानि रसलम्पटः ॥ ५॥ ध्यात्वेत्यच्छेदयत्सा-न्माकन्दान् विषये निजे ॥ आत्महेतोर्विमूढा हि, बहूनासुपपातकाः! ॥ ६॥ अन्यदा प्राभृतायातो, द्वावश्वौ वक्रशिक्षितौ ॥ आरुह्य भूपसचिवौ, वाहकेल्यांप्रजग्मतुः ॥७॥ वल्गाकर्षणतस्तूर्ण, चलन्तौ तौ च वाजिनौ ॥ अरण्यं निन्यतुर्देश-मुल्लंघ्य नृपमंत्रिणौ ॥ ८॥ तयोश्च श्रान्तयोस्तत्र, स्वयं संस्थितयोर्नृपः ॥ उत्तीर्य धीसखसखः, प्रविशक्वापि कानने ॥९॥ वार्यमाणोप्यगायेन, तत्र चूततरोस्तले ॥ निपद्य पक्कपतिता- न्यस्पृशत्तत्फलानि सः ॥ १० ॥ तानि चादाय जिघन्तं, मंत्रीत्यूचे महीधवम् ॥ अपथ्याहारतो जन्तु-विनश्यति विषादिव ॥ ११ ॥ तदर्शनं स्पर्शनश्चा-प्राणश्चैषां न तेऽर्हति ॥ स्त्रीणामिवैषां स्पदिौ, मनःस्थैर्य हि नो भवेत् ॥ १२ ॥ स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः ॥ तत्किम्पाकफलानीव, साज्यान्येतान्यपि प्रभो ! ॥ १३ ॥ तेनेत्युक्तोऽपि को दोषः १, स्यादेभिरिति चिन्तयन् ॥ बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ॥ १४ ॥ सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् ॥ आमयः स नृपतिं व्यनाशय-न्न बपथ्यनिघसः शुभावहः ॥ १९ ॥ इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः ॥ ११॥ एवं दृष्टान्तद्वयमभिधाय दान्तिकयोजनामाहमूलम्-एवं माणुस्सगा कामा, देवकामाणमंतिए।सहस्सगुणिआ भुजो, आउंकामा य दिविआ ॥१२॥ व्याख्या-एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः कामा विषया देवकामानामन्तिके समीपे किमित्येवमत आह-सहस्रगुणिताः सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सबन्धः, भूयो बहून् वारान् मनुष्यायुःकामापेक्षया इति शेषः, आयुर्जीवितं कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैते १ मंत्रिसहितः ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy