________________
उत्तरायएनसूत्रम्
॥११३॥ त्यनन्तरोक्तमनुश्रुतमवधारितं, गुरुभ्य इति शेषः । अयं भावः-गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखानामन्तरमपि स्यात् , ऑपपातिकत्वे त्वन्तर्मुहर्त्तानन्तरमेव महावेदनोदय इति कुतस्तदन्तरसम्भवः १ तथा च 'अहा. कम्महिंति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः कर्मभिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् तदनुरूपमेव स्थानं स इति पालः पश्चादित्यायुपि हीयमाने परितप्यते, यथा धिग्मां दुष्कर्मकारिणं ! किमधुना मन्दभाग्यः करोमि ? इत्यादि शोचतीति सूत्रार्थः ॥ १३ ॥ अमुमेवार्थ दृष्टान्तद्वारा दृढयन्नाहमूलम्-जहा सागडिओ जाणं, समं हेच्चा महापह। विसमं मनमोइण्णो, अक्खे भग्गंमि सोयइ।१४। __ व्याख्या-यथा शाकटिको गंत्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णा गन्तुं प्रवृत्तोऽक्षे धुरि भने खण्डिते शोचति, धिग्मे ज्ञानं ! यदहं जाननपायमवापमिति सूत्रार्थः ॥ १४ ॥ अथोपनयमाहमूलम्-एवं धम्मं विउकम्म, अहम्म पडिवजिआ।बाले मच्चुमुहं पत्ते, अक्खे भग्गेव सोअइ ॥१५॥ __ व्याख्या-एवमिति शाकटिकवत् धर्म शुभाचारं व्युत्क्रम्य उलंघ्य अधर्म हिंसादिकं प्रतिपद्य स्वीकृत्य बालो मूढो मृत्युमुखं मरणगोचरं प्राप्तः अक्षे भग्न इव शोचति, अयं भावः- यथाऽक्षभने शाकटिकः शोचति तथायमपि मरणावस्थायामात्मानं शोचति, हा! किमेतन्मया कृतमिति सूत्रार्थः ॥ १५ ॥ शोचनानन्तरञ्च किमसी करोतीत्याहमूलम्-तओसे मरणंतंमि, बाले संतस्सई भया॥ अकाममरणं मरइ, धुत्ते वा कलिणा जिए ॥१६॥
व्याख्या-तत इत्यातकोत्पत्ती शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो रागादिव्यग्रचित्तः संत्रस्यति बिभेतीत्यर्थः । कुतः ? भयानरकगतिगमनसाध्वसात् , अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह-अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकश्चासा गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः सन् ? धूर्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वा कलिना एकेन प्रक्रमादायेन जितः, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छसंक्लेशफलैर्मभोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमर्थ निगमयितुमाहमूलम्-एअं अकाममरणं, बालाणं, तु पवेइअं। एत्तो सकाममरणं पंडिआणं सुणेह मे ॥१७॥
व्याख्या-एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवदितं प्ररूपितं तीथकरादिभिरिति शेषः। पण्डितमरणप्रस्तावनामाह-'एत्तात्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत मे मम वदत इति शेष इति सूत्रार्थः ॥१७॥ यथा प्रतिज्ञातमेवाहमूलम्-मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं। विप्पसन्नमणाघायं, संजयाणं वुसीमओ ॥१८॥ . व्याख्या-'मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते सपुण्यानां पुण्यवतां, किं सर्वमपि ? नेत्याह-यथा येनप्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपात्तं, अनुश्रुतमवधारितं नवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह-'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसन्नं, तथा न विद्यते आघातः पीडात्मकस्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषा ? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आपत्वावश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतच्चात्पण्डितमरणमेव, ततोयमर्थः-यथा खेतसंयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ १८ ॥ किञ्चमूलम्-ण इमं सवेसु भिक्खुसु,न इमं सवेसु गारिसु।नाणासीला अगारस्था,विसमसीला य भिक्खुणो१९ - व्याख्या-नेदं पण्डितमरणं 'सधेसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षणां परदत्तोपजीविनां अतिनामिति यावत् , किन्तु केषाञ्चिदेवोपचितपुण्यानां भावभिक्षुणां । तथा च तद्गृहस्थानां दूरापास्तमेव, अत एवाह-नेदं सर्वेषामगारिणा, सर्वचारित्रिणामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषा
णामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतः । विषमशीलाश्च विसदृशशीलाच मिक्षयो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा नियन्ते ! तर्हि क तीर्थान्तरीयाः १ इति स्त्रार्थः ॥ १९ ॥ विषमशीलतामेव भिषणां समर्थयितुमाह