SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उत्तराषवनस्थय ॥१०॥ मानो रणागणे नो पैरिभिरुपहन्यते, इति तन्मोक्षं प्रामोति, खतंत्रस्तु पूर्वमशिक्षितो रणस्थान प्राप्तस्तैरुपहन्यते, पत्र चायं सम्प्रदायः___ तथा सेकेन भूपेन, द्वयोः क्षत्रियपुत्रयोः ॥ दत्तावधकिशोरौ द्वौ, शिक्षायै पोषणाय च ॥१॥ तत्रैकः कालयोग्यस्त-माहारैः पोषयन् शुभैः ॥ अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः ॥२॥ अन्यस्त्वस्मै शुभं वस्तु, को ददातीति चिन्तयन् ॥ तुषादिकं ददौ तं च, घरट्टेऽवाहयत्सदा ॥३॥राज्ञा दत्तं च तद्योग्यं, बुमुजे खयमेव सः॥ न च वाजिकलां तस्मै, शिक्षयामास काञ्चन ! ॥ ४ ॥ अन्यदोपस्थिते युद्धे, राज्ञोक्ताविति तौ नरौ ॥ आगच्छतं युवां तूर्ण-मारुह्याचं निजं निजम् ॥५॥ ततस्तौ तुरगारूढी, प्राप्तौ भूभर्तुरन्तिकम् ॥ तदाज्ञया प्राविशता, मध्येयुद्धमुदायुधौ ॥६॥ तयोरेकः सादिचित्ता-नुवृत्त्या सञ्चरन् हयः॥ सद्यो जगाम सङ्ग्राम-पारं शिक्षागुणान्वितः ॥७॥ अन्यस्तु दुष्टशिक्षावान् , शुभशिक्षाविनाकृतः ॥ तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ॥८॥ यंत्रभ्रमण भ्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् ॥ अशिक्षितोयमित्यन्त-विदांश्चक्रुः परे भटाः॥९॥ ततस्तत्सादिनं हत्वा, जगृहुस्तमरातयः ॥ विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनैः ॥१०॥ आद्यो यथाथो निजसादिपार-तंत्र्यात्समित्पारमवाप सद्यः ॥ धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतंत्र्यात् ॥ ११॥ इति वाजिद्वयकथा ॥ अत एव च 'पुवाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवख, अप्रमत्तः प्रमादपरिहर्ता, 'तम्हत्ति' तस्मात्स्वातंत्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदा. युषामेव चारित्रपरिणामः स्यादिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८॥ ननु ? यदि छन्दोनिरोधेन मुक्तिस्तन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाहमूलम्- स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं ॥ विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ॥ ९ ॥ व्याख्या-स इति यत्तदोर्नित्याभिसम्बन्धात् यः पूर्वमप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं 'पुत्वमेवति' एवं शब्दस्य उपमार्थत्वात् पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च 'एसोवमत्ति' एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि, न तु जलबुद्बुदसमानायुषामन्येषां, तथा चायमुत्तरकालेपि छन्दोनिरोधमनाप्नुवन् विषीदति, कथमहमकृतधर्मकर्मा परत्र नरकादिवेदना अनुभविष्यामीति वैक्लव्यमनुभवति, शिथिले आत्मप्रदेशान्मुश्चत्यायुषि कालेन मृत्युना उपनीते ढौकिते शरीरस्य भेदे सर्वशाटात् पृथग्भावे तस्मादादित एव प्रमादः परिहर्तव्य इति सूत्रार्थः ॥९॥ कथं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याहमूलम्-खिप्पं न सकेइ विवेगमेडं, तम्हा समुट्ठाय पहाय कामे ॥ समेच लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ॥ १०॥ न्याख्या-क्षिप्रं तत्क्षण एव न शक्नोति विवेकं द्रव्यतो बहिःसङ्गत्यागरूपं, भावतः कषायापोहात्मकं, एतुं गन्तु कर्तमित्यर्थः । कृतपरिकर्मा हि दूतं तत्परित्यागं कर्तमलं. न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी तथा मेको द्विजोऽन्यत्र, गत्वा देशे महामतिः ॥ साङ्गान् वेदानधीत्यागा-त्कृतकृत्यो निजं गृहम् ॥ १॥ तस्मै चैकेन विप्रेण, सुरूपा खसुता ददे ॥ लोकाच दक्षिणाभिस्तं, वेदशं धनिनं व्यधुः ॥ २॥ ततः स स्वीकृते भूरीनलंकारानकारयत् ॥ सापि तान् परिधायास्था-भूषितैव दिवानिशम् ॥३॥ तां चेत्युवाच तत्कान्तः, कान्ते ! परिधेयाः परिष्कारा, न तु प्रतिदिनं त्वया ॥४॥ तस्करोपद्रवः प्रान्त-ग्रामे सत्र भवेशम् ॥ न चोत्तारयितुं शक्या, द्रुतमेते तदागमे ॥ ५॥ साथ माह यदा खामि-बायास्यन्तीह दस्यवः ॥ एतानुत्तारयिप्यामि, तदाहमविलम्बितम् ॥ ६ ॥ इत्युक्त्वा सा तथैवास्था-न तु तानुदतारयत् ॥ सुशिक्षामपि मन्यन्ते, दक्षंमन्या न जन्तवः ॥७॥ चौराः केचिच तां नित्यं, मण्डितां दृष्टपूर्विणः ॥ तस्या एव गृहेऽन्येधु-विविशुर्जगृहुच ताम् ॥ ८॥ नित्यं स्निग्धाशनात्पीन-पाणिपादा तदा च सा ॥ कटकाद्यपनेतुं द्राक् , नानभ्यासादभूत् प्रभुः ॥९॥ ततस्तस्याः करौ छित्त्वा, लात्वा च कटकादिकम् ॥ पाटचरा ययुस्तूर्णं, पापानां हि कुतो दया ? ॥ १०॥ यथा
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy