SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ॥१०२॥ उत्तराप्ययनसूत्रम् तौ नरावन्ये, चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवाब्धिः स्रोतसा सह ॥ २०४ ॥ तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघनः ॥ २०५ ॥ महाव्रती समेत्यैव-मुवाच नृपनन्दनम् ॥ पुत्र ! शङ्खपुरे देवा-नन्तुमेमि त्वया समम् ॥२०६॥ [ यु-मम् ] किन्तु मत्सन्निधौ वर्ण-दीनाराः सन्ति केचन ॥ देवानां बलिपूजार्थे, दत्ता धार्मिकपूरुषैः ॥ २०७॥ तानादत्व यथा मार्गे, ब्रजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशकं स्यान्मनो भृशम् ॥ २०८ ॥ इत्युदित्वा कुमाराय, स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः॥२०९॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः खरैः॥ कथाभिर्विविधाभिश्चा-ऽरअयत्पथिकान् पथि ॥ २१० ॥ न तस्य व्यश्वसीद्भिक्षु-वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥ २११॥ वाहांश्च वाहयंस्तूर्ण, कान्तारान्तर्जगाम सः॥ तदा च राजपुत्रादीन् , जटिलः सोऽब्रवीदिदम् ॥२१२॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् ॥ वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥ २१३ ॥ तत्रत्यानां बल्लवाना-मत्यर्थ वलभोस्म्यहम् ॥ सर्वेषामात्मनां तस्मा-तेऽद्य दास्यन्ति भोजनम् ॥ २१४ ॥ गत्वाऽऽगच्छामि तद्यावतावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं विधाय यः ॥ २१५॥ इत्युक्त्वा स व्रती गत्वा-ऽऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थय मम श्रमम् ॥ २१६ ॥ प्रत्युत्पन्नमतिः सोऽय, प्रोचे मौलौ व्यथास्ति मे॥ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया ॥२१७॥ इत्युक्त्वा वारयन्नेत्र-संज्ञया सार्थिकांश्च सः॥ कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥२१८॥ विषमिश्रंच तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाग्नुवन् ॥ ततोऽधाबच्छरान्मुञ्चन् , कुमारं प्रति स व्रती ॥ २१९ ॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येषमब्रवीत् ॥ २२० ॥ अहं दुर्योधनाहान-श्चौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ॥२२१॥ त्ववीर्य वीक्ष्य तुष्टोन्त-वच्मि ते सूनृतं वचः ॥ वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः ॥ २२२ ॥ तस्य पश्चिमभागे च, सजिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वाम-भागस्थे भूमिधामनि ॥ २२३ ॥ तत्रास्ति रूपलावण्य-पुण्याजी नवयौवना ॥ नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥ २२४ ॥ तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्नि मृतस्य मे ॥ वदन्ने क्षणाहस्यु-र्दीर्घनिद्रामवाप सः॥२२५॥ ततो दारूणि संमील्य, तं प्रज्वाल्य महीशसूः ॥रथमारुह्य तत्प्रोक्ते,ययौ देवकुले द्रुतम् ॥२२६॥ शिलां चोद्घाट्य तेनोः ,शब्दिता दस्युसुन्दरी॥मध्येसौधं समेहीति, समेत्य तम भाषत ॥ २२७ ॥ तद्रूपं च जगजैत्रं, कुमारो यावदक्षत ॥ तं जघानापहस्तेन, तावन्मदनमंजरी ॥ २२८ ॥ इति चाख्यन्मया सख्यः, पितरौ खजनास्तथा ॥ त्यक्तास्तव कृते त्वचा-ऽत्रपः कामयसे पराम् ॥ २२९ ॥ ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् ॥ विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ॥२३० ॥ लङ्घमानश्च गहनं, गहनं स्त्रीचरित्रवत् ॥ पुलिन्दवृन्दमुत्रस्त-मपश्यन्नश्यदुच्चकैः ॥ २३१ ॥ किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् ॥ यावसर्वादिशस्ताव-इदशैकं मतङ्गजम् ॥ २३२ ॥ उदस्तेन खहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान् सिन्धुवेगवत् ॥ २३३ ॥ मदाम्बुनिझरक्लिन्नं, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिव जङ्गमम्॥२३४॥तं मत्तानेकपं प्रेक्ष्य, प्रस्तां मदनमंजरीम् ॥ आवास्योदतरत्तूर्ण, स्यन्दनानृपनन्दनः ॥ २३५ ॥ [ त्रिभिर्विशेषकम् ] ययौ च संमुखं तस्य, धैर्याधरितभूधरः ॥ तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदप्रतः ॥ २३६ ॥ प्रहर्तुं तत्र दन्ताभ्यां, नीचैजर्जातं च तं गजम् ॥ उत्प्लुत्यारोहदत्यर्थ, खेदयित्वा मुमोच च ।। २३७ ॥ रथमारुह्य गच्छंश्च, पुरो व्यानं विलोक्य सः॥ हित्वा रथमगात्तस्य, संमुखं विकसन्मुखः ॥ २३८॥ तमायान्तं प्रति व्याघ्रः, क्रोधोदुषितकेसरः ॥ पुच्छमाच्छोटयन् व्यात्त-वक्रो यावदधावत ॥ २३९ ॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जघानापरपाणिस्थकृपाण्या निष्कृपः स तम् ॥ २४०॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः॥२४१॥ अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः॥ धमनीस्फारफूत्कार, प्रचण्डं यमदण्डवत् ॥२४२॥ लोहिताक्षं कालकान्ति-मायान्तं वीक्ष्य तं भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमंजरी ॥ २४३ ॥ [ युग्मम् ] मुजङ्गाद्भीरु ! मा भैपी-रित्युत्तवा भूपभूस्ततः ॥ तन्नेत्रगतिवाणि, स्तम्भयामास विद्यया ॥ २४४ ॥ आहितुण्डिकबद्भरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुल्लंघ्या-ऽरण्यं शङ्खपुरे ययौ ॥२४५॥ यञ्च तस्य बलं भिल्ल-बलानष्टमभूत्पुरा ॥ तदप्यन्येन मार्गेणा-ऽऽययौ भूपभुवोन्तिके ॥ २४६ ॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः॥ २४७ ॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy