________________
॥९८॥
उत्तराणवनस्त्रम् यतः । ॥ २९ ॥ कुमारोऽपि वचस्तस्य, तत्तथा प्रत्यपद्यत ॥ ततस्तं सार्धमादाय, निजं धाम जगाम सः ॥ ३०n मातृव्योऽयं मायात, इति पल्यै जगाद च ॥ जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः ॥ ३१ ॥ ततः सा सपयित्वा तं, भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ॥ ३२ ॥ इदं मदीयं तुरग-सदनस्पन्दनादिकम् ॥ खकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ॥ ३३ ॥ ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोभवत् ॥ ३४ ॥ विनयामृतवान् लोक-कैरवाणि प्रमोदयन् ॥ सोग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः ॥ ३५ ॥ मा विस्मरन्त्विमा भूरि-भाग्यैर्लन्धा ममेति सः॥ कलापरिश्रमं चक्रे, गृहोमानतोवरम॥३६॥ तस्योद्यानस्य पार्थे च, चारुवातायनाञ्चितम ॥ अभद्विशालमत्तकं. श्रेष्ठस्य श्रेष्टिनो गृहम ॥ ३७॥ तत्र चासीत्सुता तस्य, नाना मदनमंजरी ॥ खर्वधूगर्वसर्वख-सर्वकषवपुलता ॥ ३८ ॥ सा च नित्यं गवाक्षस्था, तं ददर्श नृपाङ्गजम् ॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥ ३९ ॥ राजाङ्गजस्तु नो सम्यक, तां मृगाक्षीमुदक्षत ॥ विद्याग्रहणलोभेन, गुरोराशङ्कया तथा ॥ ४० ॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ॥ ४१ ॥ तदा त्वगडदत्तस्तां, सविशेष निरैक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ॥ ४२ ॥ सम्पूर्णचन्द्रवदनां, विनिद्राम्भोजलोचनाम् ॥ वर्णकुम्भाभवक्षोजा, पल्लवाताम्रपाणिकाम् ॥ ४३ ॥ प्रादुर्भूतैर्बहिर्मू-रनुरागलवैरिव ॥ किङ्केलिपल्लवैश्छन्नां, मूर्तामिव वनश्रियम् ॥४४॥ लिप्तां स्वर्णद्रवणेव, पीयूषेणेव निर्मिताम् ॥ तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ॥ ४५ ॥ [त्रिभिर्विशेषकम् ] किमियं कमला नाग-कनी देवाङ्गनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरखती १॥ ४६ ॥ ध्यात्वेत्यूचे च तां सुभ्र !, काऽसि त्वं कस्य वा सुता ? ॥ मां कलाभ्यासरक्तञ्च, परिमोहयसे कुतः १ ॥ ४७ ॥ सानन्दा सा ततः प्रोचे, नाम्ना मदनमंजरी ॥ बन्धुदत्ताभिधश्रेष्ठि-मुख्यस्य तनयाऽस्म्यहम् ॥ ४८ ॥ इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता ॥ इदं तु मन्दिरं विद्धि, मत्पितुर्गुणमन्दिरम् ॥ ४९ ॥ त्वां च दृष्ट्वा जगजैत्र-रूपं चित्तानमास्करम ॥ जाताम्येषा महाभाग !, त्वदेकायत्तजीविता ॥५०॥मारधिकारिरूपस्त्वं. यतःप्रभति वीक्षितः॥ ततः प्रभृति मामुच्चै-र्बाधते घस्मरः स्मरः !॥ ५१ ॥ कामदाघज्वरोच्छित्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, घृद्धिमेव प्रयात्यहो ! ॥ ५२ ॥ अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः ॥ नो चेत्तद्भोजना देवाः, सन्ताप्यन्तेऽमुना कथम् ? ॥ ५३॥ त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्वरः ॥ परःशतैरपि परै-हीयते भेषजैः कथम् ? ॥५४ ॥ तहोषज्ञोपचारं मे, न करिष्यति चेद्भवान् ॥ तदावश्यमयं जन्तुः, परलोकं गमिष्यति ! ॥ ५५ ॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ॥ तथा निर्वापय खाग-सङ्गमेनाङ्गमप्यदः ॥ ५६ ॥ इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्रामुयात्प्रान्तमप्यसौ ॥ ५७ ॥ “प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश ॥ तत्राद्यायां भवेचिन्ता-ऽपरस्यां सङ्गमस्पृहा ॥५८॥ तृतीयायां तु निःश्वास-श्चतुर्थ्यां तु स्मरज्वरः ॥ देहे दाहश्च पञ्चम्यां, षष्ठ्यां स्याझोजनारुचिः ॥ ५९ ॥ सप्तम्या तु भवेन्मूर्छा-ऽष्टम्यामुन्माद उल्वणः ॥ नवम्या प्राणसन्देहो, दशम्यां प्राणविच्युतिः ॥ ६०॥” तदसौ सुन्दरी मास्म, म्रियतां मद्वियोगतः॥ ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ ६१॥ मृगाक्षि ! सुन्दराज्यस्य, राज्ञः शङ्खपुरेशितुः ॥ प्रथम नन्दनं नाना-ऽगडदत्तमवेहि माम् ॥ ६२ ॥ कलाचार्यान्तिके कर्तुं, कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः ॥६३॥ तदुत्सुकोऽपि नेदानीं, त्वया सङ्गन्तुमुत्सहे ॥ इतो ब्रजंस्तु हत्वा त्वां, गमिष्यामि न संशयः ॥ ६४ ॥ इत्याधुक्त्वा कथञ्चित्तां, खस्थीकृत्य नृपाङ्गजः ॥ जगाम गेहमुद्याना-प्तद्रूपाक्षिप्तमानसः॥६५॥ अन्यदा भूपभूरवा-रूढो राजपथे व्रजन् ॥ तुमुलं रोदसीकुक्षि-म्भरि श्रुत्वेत्यचिन्तयत् ॥६६॥ किं चुक्षोभ पयोराशी- ज्वाल ज्वलनोऽथवा ॥ वैरिसैन्यमुतायातं, तडिद्वा पतिता कचित् ! ॥ ६७ ॥ ध्यायन्नेवं ददशैंक, कुमारो मत्तदन्तिनम् ॥ मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ॥६८॥ निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ॥ महाबलैः पादपातै-य॑ञ्चयन्निव मेदिनीम् ॥ ६९ ॥ मारयन् पशुमादीन्, गृहहट्टादि पातयन् ॥ सोऽपि व्यालः क्षणात्काल, इवाभ्यागानृपाजजम् ॥ ७० ॥ [ युग्मम् ] तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः ॥ मुञ्च मुञ्च न्यालमार्ग-मिति राजाअजं जगुः ॥ ७१॥ कुमारस्तु हयं हित्वा, तूर्णमाहास्त हस्तिनम् ॥ ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ॥७२॥ उत्तरीयं पुरस्तस्य, कुमारः प्राक्षिपत्ततः॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु सः॥७३॥ पृष्ठे गत्वा