SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५८ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [ गाथा तथा तद् न्यग्रोधपरिमण्डलम् , तन्निबन्धनं नाम न्यग्रोधपरिमण्डलनाम २ । सह आदिनानाभेरधस्तनभागरूपेण यथोक्तप्रमाणयुक्तेन वर्तत इति सादि । सर्वमपि हि शरीरं सादि, ततः सादित्वविशेषणान्यथानुपपत्तेरादिरिह विशिष्टो ज्ञातव्यः । ततो यत्र नाभेरधो यथोक्तप्रमाणयुक्तमुपरि च हीनं तंत् सादि संस्थानम् , तन्निवन्धनं नाम सादिनाम ३ ।यित्र पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपपन्नम् उरउदरादि च मडभं तत् कुब्जसंस्थानम् , तन्निबन्धनं नाम कुञ्जनाम ४ । यत्र पुनरुरउदरादि यथोक्तप्रमाणोपेतं हस्तपादादिकं च हीनं तद् वामनसंस्थानम् , तन्निबन्धनं नाम वामननाम ५ । अन्ये तु कुब्जवामनयोविपरीतं लक्षणमाहुः । यत्र सर्वेऽप्यवयवाः शास्त्रोक्तप्रमाणहीनास्तत् सर्वत्रासंस्थितं 'हुण्डसंस्थानम् , तन्निबन्धनं नाम हुण्डनाम ६ । ततो यदुदयाद् जन्तुशरीरं समचतुरस्त्रसंस्थानं भवति तत्कर्मापि समचतुरस्रसंस्थाननामेति । एवं न्यग्रोधपरिमण्डलादिप्वपि योज्यम् । उक्तं षोढा संस्थाननाम ॥ इदानीं पञ्चधा वर्णनामाऽऽह-वर्णाः पञ्च भवन्ति कृष्णश्नीलरलोहित३हरिद्र४सिताः५। तत्र यदुदयाद् जन्तुशरीरं कृष्णं भवति राजपट्टादिवत् तत्कर्मापि कृष्णनाम १ । यदुदयाद्जन्तुशरीरं मरकतादिवद् नीलं भवति तद् नीलनाम २ । यदुदयाद् जन्तुशरीरं लोहितं-रक्तं हिगुलादिवद् भवति तद् लोहितनाम ३ । यदुदयाद् जन्तुशरीरं-हारिद्र-पीतं हरिद्रावद् भवति तद् हारिद्रनाम ४ । यदुदयाद् जन्तुशरीरं सितं-श्वेतं शङ्खादिवद् भवति तत् सितनाम ५। कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते, न पुनः सर्वथैतद्विलक्षणा इति न दर्शिताः ॥३६॥ उक्तं वर्णनाम पञ्वधा । अथ गन्धनाम द्विधाऽऽह। सुरहिदुरही रसा पण, तित्तकडकसायषिला महुरा । फासा गुरुलहुमिउखरसीउण्हसिणिडरुक्खऽहा ॥४०॥ इह गन्धशब्दः प्रक्रमाद् गम्यते, ततः सुरभिगन्धो दुरभिगन्धश्च द्वेवा गन्धः । तत्र सौमुख्यकृत् सुरभिगन्धः, यदुदयाद् जन्तु शरीरं कपूरादिवत् सुरभिगन्धं भवति तत् सुरभिगन्धनाम १ । वैमुख्यकृत् दुरभिगन्धः, यदुदयाद् जन्तुशरीरं लशुनादिवद् दुरभिगन्धं भवति तद् दुरभिगन्धनाम २ । अत्राप्युभयसंयोगजाः पृथग् नोक्ताः, एतत्संसर्गजन्वादेव मेदाविवक्षणात् । उक्तं द्विधा गन्धनाम || अथ पञ्चधा रसनामाऽऽह-रसाः पूर्वोक्तशब्दार्थाः पञ्च भवन्ति । तथाहि-तिक्तकटुकषायाऽम्लाश्चत्वारो मधुरश्च पश्चमः । तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः। तथा च भिषक्शास्त्रम्१ हुण्डं सं० ख० ग०॥ २ ०गुलकादि० ख० न० ० ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy