________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा नि० गा० १३) इत्यादि अनुयोगद्वाराणामन्यतरदेकमनुयोगद्वारमुच्यते ११ । तव्यादिसमुदायः पुनरनुयोगद्वारसमासः १२ । प्राभृतान्तवर्ती अधिकारविशेषः प्राभृतप्राभृतम् १३। तद्व्यादिसमुदायस्तु प्राभृतप्राभृतसमासः(१४ । वस्त्वन्तर्वर्ती अधिकारविशेषः प्राभृतम् १५ । तद्
द्व्यादिसंयोगस्तु प्राभृतसमासः)१६ । पूर्वान्तर्वर्ती अधिकारविशेषो वस्तु १७ । तव्यादिसंयोगस्तु वस्तुसमासः १८। पूर्वमुत्पादपूर्वादि पूर्वोक्तस्वरूपम् १९ । तद्व्यादिसंयोगस्तु पूर्वसमासः २० । एवमेते संक्षेपतः श्रुतज्ञानस्य विंशति दा दर्शिताः, विस्तरार्थिना तु बृहत्कर्मप्रकृतिरन्वेषणीया । एते च पर्यायादयः श्रतभेदा यथोत्तरं तीव-तीव्रतरादिक्षयोपशमलभ्यत्वादित्थं निर्दिष्टा इति परिभावनीयमिति । अथवा चतुर्विधं श्रुतज्ञानम् , तथाहि-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याण्यादेशेन जानाति, क्षेत्रतः सर्वक्षेत्रमादेशेन श्रुतज्ञानी जानाति, कालतः सर्व कालमादेशेन श्रुतज्ञानी जानाति, भावतः सर्वान् भावान् आदेशेन श्रुतज्ञानी जानातीति ।।७।।
व्याख्या सविस्तरं श्रुतज्ञानम् । सम्प्रत्यवधिज्ञानं व्याख्यायते, तच्च द्वेधा-भवप्रत्ययं देवनारकाणाम् , गुणप्रत्ययं मनुष्यतिरश्वाम् , तच्च पोढा, तथा चाह सूत्रम्
अणुगामिवड्डमाणयपउिवाईयरविहा छहा ओही ।
रिउमह विउलमई मणनाणं केवलमिगविहाणं ॥८॥ 'आनुगामि च वर्धमानकं च प्रतिपाति च इतराणि च-अनानुगामिहीयमानकाप्रतिपातीनि आनुगामिवर्धमानकप्रतिपातीतराणि, विधानानि विधाः-भेदाः, तत आनुगामिवर्धमानकप्रतिपातीतराणि विधा यस्य तत्तथा तस्माद् आनुगामिवर्धमानकप्रतिपातीतरविधात् षड्धा 'अवधिः' अवधिज्ञानं भवति । उक्तं च नन्द्यध्ययने_ 'तं समासओ छव्विहं पन्नत्तं, तं जहा-आणुगामियं अणाणुगामियं वडमाणयं हीयमाणयं पडिवाई अपडिवाई । (नन्दी पत्र ८१-१)
तत्र गच्छन्तं पुरुषम् आ-समन्तादनुगच्छतीत्येवंशीलमानुगामि, यद् देशान्तरगतमपि ज्ञानिनमनुगच्छति लोचनवत् तद् अवधिज्ञानमानुगामीति भावः १ । तथा न आनुगामि अनानुगामि, शृङ्खलाबद्धप्रदीप इव यद् न गच्छन्तं ज्ञानिनमनुगच्छति, यत् किल तद्दे शस्थस्यैव भवति, तदेशनिबन्धनक्षयोपशमजत्वात् , देशान्तरगतस्य त्वपैति, तद् अवधिज्ञानमनानुगामीति भावः २ । यदाह भगवान् श्रीदेवर्डिक्षमाश्रमणः
१ अनुगामि क० ख० ग० एवमग्रेऽपि ।। २ तत् समासतः षड्विधं प्रज्ञप्तम् , तद्यथा-आनुगामिकमनानुगामिकं वर्धमानक हीयमानकं प्रतिपात्यप्रतिपाति ।।