SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः । • तच्चतुर्धा भवति, तद्यथा-अवग्रह ईहा अपायः धारणा । यदाह से किं तं सुयनिस्सियं मइनाणं ? सुयनिस्सियं मइनाणं चउव्विहं पन्नत्तं, तं जहाउग्गहो ईहा अवाए धारणा ।। (नन्दी पत्र १६८..१) पुनरवग्रहो द्वैधा-व्यञ्जनावग्रहः अर्थावग्रहश्च । आह च से किं तं उग्गहे ? उग्गहे दुविहे 'पन्नने, तं जहा-वंजणुग्गहे अत्थुग्गहे य ॥ (नन्दी पत्र १६८-२) तत्र व्यज्यते-प्रकटीक्रियतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम् । आह च "जिज्जइ जेणत्थो घडु व्य दीवेण वंजणं तं च । (विशे० गा० १९४) तच्चोपकरणेन्द्रियं कदम्बपुष्पातिमुक्त कपुष्पक्षरप्रनानाकृतिसंस्थितश्रोत्रघाणरसनस्पर्शनलक्षणं शब्दगन्धरसस्पर्शपरिणतद्रव्यसङ्घातो वा । ततश्च यञ्जनेनोपकरणेन्द्रियेण व्यञ्जनानां शब्दादिपरिणतद्रव्याणामवग्रहणं परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपाद्व्यञ्जनावग्रहः, किमपीदमित्यव्यक्तज्ञानरूपार्थावग्रहादधोऽव्यक्ततरं ज्ञानमित्यर्थः । अयं चतुर्धा । यदाह सूत्रकृत'वंजणवग्गहु चउह" ति स्पष्टम् । चातुर्विध्यमेव भावयति--"मणनयणविणिंदियचउक" त्ति मनश्च मानसं नयनं च लोचनं मनोनयने, मनोनयने विना मनोनयनविना, “नाम नाम्नैकार्य समासो बहुलम्" (सि०३-१-१८) इति समासः । इन्द्रियाणां चतुष्कमिन्द्रियचतुष्कं तस्माद् इन्द्रियचतुष्कात् , अत्र “गम्ययपः कर्माधारे" (सि० २-२-७४) इति पञ्चमी । मनोनयनवर्जमिन्द्रियचतुष्कमाश्रित्य व्यञ्जनावग्रहश्चतुर्धा भवतीति भावार्थः । उक्तं च नन्द्यध्ययने से 'किं तं वंजणुग्गहे ? वंजणुग्गहे चउबिहे पन्नत्ते, तं जहा-सोइंदियवंजणुग्गहे घाणिदियवंजणुग्गहे रसणिदियवंजगुग्गहे फासिदियवंजणुग्गहे ॥ (नन्दी पत्र १६९-.२) मनोनयनयोर्वर्जनं किमर्थम् ? इति चेद् उच्यते--मनोनयनयोरप्राप्तकारित्वात् , अप्राप्तकारित्वं च विषयकृतानुग्रहोपघातशून्यत्वात् , प्राप्तकारित्वे पुनरनलजलशूल्यादीनां चिन्तनेऽवलोकने च दहनक्लेदनपाटनादयः स्युः । अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थ नालम्बत इत्येतावनियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ दिनकरकिरणादिनेति । १ अथ किं तत् श्रुतनिश्रितं मतिज्ञानम् ? श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्तम्, तद्यथा-अवग्रह ईहा अपायः धारणा ॥२ अथ कोऽसाववग्रहः ? अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथा-व्यञ्जनावग्रहो ग्रहश्च ।। ३ नत्ते वंज० क० ग० ॥ ४ व्यज्यते येनार्थः घट इव दीपेन व्यञ्जनं तच्च ॥ ५०क्तचन्द्रक्षु० ०क्तपुष्पचन्द्रक्ष घ० ङ० ।। ६ अथ कोऽसौ व्यञ्जनावग्रहः ? व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथाश्रेनेन्द्रियव्यञ्जनावग्रहो घ्राणेन्द्रियव्यकजनावग्रहो रसनेन्द्रियव्यकजनावग्रहः स्पर्शन्द्रियव्यकजनावग्रहः ।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy