SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं तत्र वेदनीय - गोत्रयोर्भङ्गनिरूपणार्थमियमन्तर्भाष्यगाथा - चउछस्सु दोणि सत्तसु, एगे चउ गुणिसु वेयणियभंगा | गोए पण चउ दो तिसु, एगऽडुसु दोणि एकम्मि || ३ || मिथ्यादृष्ट्यादिषु प्रमत्तसंयतपर्यन्तेषु षट्सु गुणस्थानकेषु प्रत्येकं वेदनीयस्य प्रथमाश्चत्वारो भङ्गाः, ते चेमे - असातस्य बन्धः असातस्योदयः सातासाते सती, असातस्य बन्धः सातस्यो - दयः सातासात सती, सातस्य बन्धः असातस्योदयः सातासाते सती, सातस्य बन्धः सातस्योदयः सातासाते सती । तथाऽप्रमत्तसंयतादिषु सयोगिकेव लिपर्यन्तेषु सप्तसु गुणस्थानकेषु द्वौ भङ्गौ तौ चानन्तरोक्तावेव तृतीयचतुर्थी ज्ञातव्यौ, एते हि सातमेव बध्नन्ति नासातम् । तथा 'एकस्मिन्' अयोगिकेवलिनि चत्वारो भङ्गाः, ते चेमे - असातस्योदयः सातासाते सती, अथवा सातम्योदयः सातासाते सती, एतौ द्वौ विकल्पावयोगिकेवलिनि द्विवरमसमयं यावत् प्राप्येते; चरमसमये तु असातस्योदयः असातस्य सत्ता यस्य द्विचरमसमये सातं क्षीणम्, यस्य त्वसातं द्विचरमसमये क्षीणं तस्यायं विकल्पः - सातस्योदयः सातस्य सत्ता । ३४० ] [ गाथाः 1 " गोए" इत्यादि । 'गोत्रे' गोत्रस्य पश्च भङ्गा मिथ्यादृष्टों, ते चेमे-नीचैर्गोत्रस्य बन्धः नीचे गोत्रस्योदयः नीचैर्गोत्रं सत् एष विकल्पस्तेजस्कायिक वायुकायिकेषु लभ्यते, तद्भवादुवृत्तेषु वा शेपजीवेषु कियत्कालम् । नीचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः उच्च नीचे गोत्रे सती । अथवा नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्च-नीचैगोत्रे सती, अथवा उच्चैस्य बन्धः नीचैर्गोत्रस्योदय उच्च-नीच्चै गोत्रे सती, उच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती । सासादनस्य प्रथमवर्जाः शेषाश्चत्वारो भङ्गाः । प्रथमो हि भङ्गस्तेजः - वायुकायिकेषु लभ्यते, तद्भवादुद्वृत्तेषु वा कियत्कालम् । न च तेज:-वायुषु सासादनभावो लभ्यते, नापि तद्भवादुद्वृत्तेषु तत्कालम्, अतोऽत्र प्रथमभङ्गप्रतिषेधः । तथा 'त्रिषु' मिश्रा ऽविरत देश विरतेषु चतुर्थ-पञ्चमरूपौ द्वौ भङ्गौ भवतः, न शेषाः, मिश्रादयो हि नीचेगोत्रं न बध्नन्ति । अन्ये त्वाचार्या ब्रुवते - देशविरतस्य पञ्चम एवैको भङ्गः, ""सामन्नेणं वय जाईए उच्चागोयस्स उदओ होइ" । इति वचनात् 1 “एगऽङ्कसु” त्ति प्रमत्तसंयतप्रभृतिषु अष्टसु गुणस्थानेषु प्रत्येकमेकैको भङ्गः । तत्र प्रमत्ता-ऽप्रमत्ता ऽपूर्वकरणा-ऽनिवृत्तिबादर-सूक्ष्मसम्परायेषु केवलः पञ्चमो भङ्गः, तेषामुच्चैर्गात्रस्यैव बन्ध-उदयसम्भवात् । उपशान्तमोहे क्षीणमोहे सयोगिकेवलिनि च बन्धाभावात् प्रत्येकमयं विकल्पः—उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती । १ सामान्येन व्रत- जात्योः उच्चैर्गोत्रस्य उदयो भवति ।। २ स० त० म० 'जाइ पडुच्च उ° एव ।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy