SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ३७-३८ ] चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् । २३३ " तिर्भवति, अत्र प्रत्येक साधारण-यशः कीर्ति- अयशः कीर्तिपदैश्चत्वारो भङ्गाः । वैक्रियं कुर्वतः पुनदरवायुकायिकस्यैकः, यतस्तस्य साधारण - यशः कीर्ती उदयं नागच्छतः, अन्यच्च वैक्रियव!युकायिकचतुर्विंशतावौदारिकशरीरस्थाने वैक्रियशरीरमिति वक्तव्यम् शेषं तथैव । सर्वसङ्ख्या चतुर्विंशतो पञ्च भङ्गाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रक्षिप्ते पञ्चविंशतिः, अत्रापि तथैव पञ्च भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते षड्विंशति, अत्रापि तथैव पञ्च भङ्गाः । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते आतप उद्योतान्यतरस्मिंस्तूदिते पविशतिः, अत्रातपेन प्रत्येक यशः कीर्ति अयशः कीर्तिपदे द्वौ भङ्गौ, साधारणस्यातपोदयाभावात् तदाश्रितो विकल्पौ न भवतः । उद्योतेन प्रत्येक साधारण-यशः कीर्त्ति-अयशः कीर्तिपदैश्चत्वारः । सर्वसङ्ख्यया पविशतावेकादश भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वाससहितायां पविशतो आतप उद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सप्तविंशतिः, अत्र प्रागिवातपेन द्वौ, उद्योतेन सह चत्वार इति सर्वसङ्ख्यया सप्तविंशतौ षड् भङ्गाः । सर्वे बादरपर्याप्तस्य भङ्गा एकोनत्रिंशत् । सत्तास्थानानि पञ्च तद्यथा - द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्व । इह पञ्चविंशत्युदये षड्विंशत्युदये च प्रत्येकं प्रत्येका- ऽयशः कीर्तिभ्यां य एकैको भङ्गः, च भङ्गावेकविंशतों, ये च वैक्रियबादरवायुकायिकवर्जाश्चतुर्विंशतौ भङ्गाचत्वारस्ते 'सर्वसङ्खयाऽष्टौ पञ्चसत्तास्थानकाः, शेपास्त्वेकविंशतिसङ्ख्याश्चतुः सत्तास्थानकाः तुझी पा- ३०८ " "पण छ पणगं" ति अत्र “विगलिंदिया उ तिन्नि उ" इति सम्बध्यते । विकलेन्द्रियाणां त्रयाणां पञ्च चन्धस्थानानि तद्यथा - त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् । एतान्यपि तिर्यङ् - मनुष्यप्रायोग्याणि तानि च प्रागिव द्रष्टव्यानि । पड् उदयस्थानानि, तद्यथाएकविंशतिः पविशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्र पर्याप्तद्वीन्द्रियस्यैकविंशतिरियम् - तैजसं कार्मणम् अगुरुलघु स्थिरा ऽस्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः सनाम बादरनाम पर्याप्तकनाम दुर्भगम् अनादेयं यशःकीर्ति - अयशः कीत्योरेकतरेति । एषा चैकविंशतिः पर्याप्तद्वीन्द्रियस्यापान्तरालगतौ वर्तमानस्यावसेया, अत्र द्वौ भङ्गौ यशः कीर्ति अयशः कीर्तिभ्याम् । ततः शरीरस्थस्य औदारिकम् औदारिकाङ्गोपाङ्ग' हुण्डसंस्थानं सेवार्तसंहननम् उपघातं प्रत्येकमिति प्रकृतिषट्कं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततः पविशतिर्भवति, अत्रापि तावेव द्वौ भङ्गौ । ततः शरीरपर्याप्त्या पर्यातस्य पराघातेऽप्रशस्तविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, अत्रापि तावेव द्वौ भङ्गौ । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते एकोनत्रिंशत्, अत्रापि तावेव द्वौ भङ्गौ; अथवा तस्यामेटाविंशतौ उच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत्, अत्रापि तावेव द्वौ भङ्गौ, १ मुद्रि० छा० सर्वेऽपि स० ॥ 30
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy