SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ २६-२८ ] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । २१५ पञ्च प्रकृतयः प्रक्षिप्यन्ते देवानुपूर्वी चापनीयते ततो जाता पञ्चविंशतिः, अत्रापि त एवाष्टौ भङ्गाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः, अत्रापि त एवाष्टौ भङ्गाः देवानामप्रशस्तविहायोगतेरुदयाभावात् तदाश्रिता विकल्पा न भवन्ति । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः, अत्रापि त एवाष्टो भङ्गाः, अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासेऽनुदिते उद्योतनाम्नि तूदितेऽष्टाविंशतिः, अत्रापि प्रागिवाष्टो भङ्गाः, सर्वसङ्ख्यया अष्टाविंशतो भङ्गाः षोडश । ततो भाषापर्याप्त्या पयोप्तस्य सुस्वरे क्षिप्ते एकोनत्रिंशद् भवति, अत्राप्यष्टौ भङ्गाः, दुःस्वरोदयो देवानां न भवतीति कृत्वा तदाश्रिता विकल्पा न भवन्ति, अथवा प्राणापानपर्याप्त्या पर्याप्तस्य सुस्वरेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशद् भवति, उत्तरवैक्रियं हि कुर्वतो देवस्योद्योतोदयो लभ्यते, अत्रापि त एवाष्टौ भङ्गाः । सर्वसङ्ख्यया एकोनविंशति षोडश भङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरसहितायामेकोनविंशति उद्योते क्षिप्ते त्रिंशद् भवति, अत्रापि त एवाष्टौ भङ्गाः, सर्वसङ्ख्यया देवानां चतुःषष्टिर्भङ्गाः ६४। नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् । तत्र नरकगतिः नरकानुपूर्वी पञ्चेन्द्रियजातिः बसनाम बादरनाम पर्यासकनाम दुर्भगनाम अनादेयम् अयशःकीर्तिरित्येता नव प्रकृतयो द्वादशसङ्ख्याभिध्रुवोदयाभिः सहै कविंशतिः, अत्र सर्वाण्यपि पदानि अप्रशस्ता'न्येवेति एक एव भङ्गः । ततः शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाङ्ग हुण्डसंस्थानम् उपघातं प्रत्येकमिति पञ्च प्रकृतयः प्रक्षिप्यन्ते, नरकानुपूर्वी चापनीयते, ततः पञ्चविंशतिर्भवति, अत्राप्येक एव भङ्गः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाता-ऽप्रशस्तविहायोगत्योः प्रक्षिप्तयोः सप्तविंशतिः, अत्राप्येक एव भङ्गः । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छवासे क्षिप्तेऽष्टाविंशतिः, अत्राप्येक एव भङ्गः । ततो भाषापर्याप्त्या पर्यासस्य दुःम्बरे क्षिप्ते एकोनत्रिंशत् , अत्राप्यक एव भङ्गः । सर्वसङ्ख्यया नेयिकाणां पञ्च भङ्गाः। सकलोदयस्थानभङ्गाः पुनः सप्तसप्ततिशतानि एकनवत्यधिकानि ७७६१ ॥ २६ ॥ सम्प्रति कस्मिन्नुदयस्थाने कति भङ्गाः प्राप्यन्ते ? इति चिन्तायां तन्निरूपणार्थमाह'एग बियालेकारस, तेत्तीसा छस्सयाणि तेत्तीसा । चारससत्तरससयाणहिगाणि विपंचसीईहिं ॥ २७ ।। अउणत्तीसेकारससयाहिगा सतरसपंचसट्ठीहिं । इक्केकगं च वीसादडुदयंतेसु उदयविही ॥२८ ।। १ छा० मुद्रि० 'न्येवेति कृत्वा एक ए° ॥ २ सं० मुद्रि० पर्याप्त्या पर्याप्तस्य वैकि' ।। ३ गाथेमे सप्ततिकाभाष्ये द्वाविंशति-त्रयोविंशत्यधिकशततम्यौ ।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy