SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ १६६ २१-२२ ] चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् । वेदकसम्यग्दृष्टीनामेव । तथाहि-कश्चिद् मनुष्यो वर्षाष्टकस्योपरि वर्तमानो वेदकसम्यग्दृष्टिः क्षपणा' याभ्युद्यतस्तस्यानन्तानुबन्धिषु मिथ्यात्वे च क्षपिते सति त्रयोविंशतिः, तस्यैव च सम्यग्मिथ्यात्वे क्षपिते द्वाविंशतिः । स च द्वाविंशतिसत्कमो सम्यक्त्वं क्षपयन् तच्चरमग्रासे वर्त. मानः कश्चित् पूर्ववद्धायुष्कः कालमपि करोति, कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । तदुक्तम्-- पट्ठवगो उ मणूसो, निट्ठवगो चउसु वि गईसु । ततो द्वाविंशतिश्चतसृष्वपि गतिषु प्राप्यते । एकविंशतिस्तु क्षायिकसम्यग्दृष्टीनामेव, यतः सप्तकक्षये क्षायिकसम्यग्दृष्टयः, सप्तके च क्षीणे सत्तायामेकविंशतिरिति । एवमष्टोदयेऽपि मिश्रदृष्टीनामविरतसम्यग्दृष्टीनां चोक्तरूपाण्यन्यूनानतिरिक्तानि सत्तास्थानानि भावनीयानि । एवं नवोदयेऽपि, नवरं नवोदयोऽविरतानां वेदकसम्यग्दृष्टीनामेव सम्भवतीति कृत्वा तत्र चत्वारि सत्तास्थानानि वाच्यानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिश्च । एतानि च प्रागिवावगन्तव्यानि । 'तेरनववंधगेसु पंचेव 'ठाणाई" त्रयोदशवन्धकेपु नवबन्धकेषु च प्रत्येकं पञ्च पश्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । तत्र त्रयोदशवन्धका देशविरताः, ते च द्विधा-तिर्यश्चो मनुष्याश्च । तत्र ये तिर्यश्चस्तेषां चतुर्वप्युदयस्थानेषु द्वे एव सत्तास्थाने, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा । तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वोत्पादकाले, तथाहि-तदानीमन्तरकरणाद्धायां वर्तमान औपशमिकसम्यग्दृष्टिः कश्चिद् देशविरतिमपि प्रतिपद्यते, कश्चिद् मनुष्यः पुनः सर्वविरतिमपि । तदुक्तं शतकबृहच्चूर्णी "उवसमसम्मद्दिट्ठी अंतरकरणे ठिओ कोइ देसविरई कोइ पमत्तापमत्तभावं पि गच्छइ, सासायंणो पुण न किमनि लहइ । इति । वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः सुप्रतीता । चतुर्विंशतिः पुनरनन्तानुबन्धिषु,विसंयोजितेषु वेदकसम्यग्दृष्टीनां वेदितव्या । शेषाणि तु सर्वाण्यपि त्रयोविंशत्यादीनि सत्तास्थानानि तिरश्चा न सम्भवन्ति, तानि हि क्षायिकसम्यक्त्वमुत्पादयतः प्राप्यन्ते, न च तिर्यञ्चः क्षायिकसम्यक्त्वमुत्पादयन्ति, किन्तु मनुष्या एव । १ सं० त० व्यामभ्यु० ॥२ प्रस्थापकस्तुमनुष्यो निष्ठापकश्चतसृष्वपि गतिषु ॥ ३ सं० छा० म. नातिरि०॥४सं०१त० म० छा००णाणि" || ५ उपशमसम्यग्दृष्टिरन्तरकरणे स्थितः कोऽपि देशविरति कोऽपि प्रमत्तांप्रमत्तभावमपि गच्छति, सासादन कमपि लभते ॥ ६ स. १ त० म. छा० ०वन्तीति ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy