________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा तथा यदुदयात् शिरः-अस्थिग्रीवादीनामवयवानां स्थिरता भवति तत् स्थिरनाम । यदुदयात्-भ्र जिह्वादीनामवयवानामस्थिरता भवति तद् अस्थिरनाम ।
यदुदयवशाद् नाभेरुपर्यवयवाः शुभा भवन्ति तत् शुभनाम । यदुदयवशाद् नाभेरधः पादादयोऽवयवा अशुभा भवन्ति तद् अशुभनाम । शिरसा हि स्पृष्टस्तुष्यति, पादेन तु रुष्यति । कामिन्याः पादेनापि स्पृष्टस्तुष्यति ततो व्यभिचार इति चेद्, न, तत्तोषस्य मोहनीयनिबन्धनत्वात् , वस्तुस्थितिश्चेह चिन्त्यते ततोऽदोषः ।
___ तथा यदुदयवशाद् जीवस्य स्वरः श्रोत्रप्रीतिहेतुरुपजायते तत् सुस्वरनाम । यदु'दयात् स्वरः कर्णकटुः प्रादुर्भवति तद् दुःस्वरनाम ।
यदुदयवशाद् अनुपकार्यपि सर्वस्य मनःप्रियो भवति तत् सुभगनाम । यदुदयवशाद् उपकारकृदपि जनस्य द्वेष्यो भवति तद् दुर्भगनाम, उक्तं च
अणुवकए वि बहूणं, होइ पिओ तस्स सुभगनामुदओ । उवगारकारगो वि हु, न रुचई दूभगस्सुदए ॥ सुभगुदए वि हु कोई, कंची आसज दुब्भगो जइ वि ।
जायइ तदोसाओ, जहा अभव्याण तित्थयरो ॥ यदुदयवशाद् यत् किश्चिदपि ब्रु वाणः सर्वस्योपादेयवचनो भवति दर्शनसमनन्तरमेव च लोकोऽभ्युत्थानादि समाचरति तद् आदेयनाम । यदुदयवशाद् उपपन्नमपि ब्रु वाणो नोपादेयवचनो भवति, न च लोकोऽभ्युत्थानादि तस्य करोति तद् अनादेयनाम ।
यदुदयवशाद् मध्यस्थजनप्रशस्यो भवति तद् यशःकीर्तिनाम । यदुदयवशाद् मध्यस्थजनस्यापि अप्रशस्यो भवति तद् अयश कीर्तिनाम । यशः-कीत्योश्चायं विशेषः--
दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः । अथवा--
___ एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः । तथा यदुदयवशाद् जीवानां शरीराणि न गुरूणि नापि लघूनि नापि गुरुलघूनि किन्त्वगुरुलघुपरिणामपरिणतानि भवन्ति तद् अगुरुलघुनाम । यदुदयवशात् स्वशरीरान्तःप्रवर्धमानः प्रतिजिह्वा-गलवृन्द लम्बक-चोरदन्तादिभिर्जन्तुरुपहन्यते तद् उपघातनाम । यदुदयवशाद् ओजस्वी
१ सं० १ त० ०दयवशात् ।। २ अनुपकृतेऽपि बहूनां भवति प्रियस्तस्य सुभगनामोदयः । उपकारकारकोऽपि हि न रुच्यते दुर्भगस्योदये। सुभगोदयेऽपि हि कोऽपि कश्चिद् आसाद्य दुर्भगो यद्यपि । जायते तदोषाद् यथाऽभव्यानां तीर्थकरः ॥ ३ सं० १ त० म० जीवो, कं ॥