SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ १६८ ] मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं सम्प्रति तानेव सप्त विकल्पान् गुणस्थानकेषु चिन्तयन्नाह---- असु एगविगप्पो, छस्सु वि गुणसंनिए दुविगप्पो । पत्तेय पत्तेयं, बंधोदयसंतकम्माणं ||५|| [ गाथा: इह गुणस्थानकानि चतुर्दश, तानि च षडशीतिकवृत्तौ सविस्तरमभिहितानीति नेह भूयोऽभिधीयन्ते । तत्राष्टसु गुणस्थानकेषु सम्यग्मिथ्यादृष्टि- अपूर्वकरणाऽनिवृत्तिवादर-सूक्ष्मसम्परायउपशान्तमोह- क्षीणमोह-सयोगिकेवलि - अयोगिकेव लिलक्षणेषु प्रत्येकं बन्ध-उदय- सत्कर्मणामेको विकल्पो भवति, तद्यथा - सम्यग्मिध्यादृष्टि- अपूर्व करणा-निवृत्तिवादरेषु सप्तविधो बन्ध: अष्टविध उदयः अष्टविधा सत्ता । अथैतेषु अष्टविधोऽपि बन्धः कस्माद् न भवति ? उच्यते---- स्वभावत एवैषामायुर्वन्धयोग्याध्यवसायस्थानशून्यत्वात् । सूक्ष्मसम्पराये षड्विधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, सूक्ष्म सम्परायो हि बादरकषायोदयाभावाद् आयुर्मोहनीयं च न बध्नाति, ततस्तस्य षड्विध एव बन्धो भवति । उपशान्तकपायस्य एकविधो बन्धः सप्तविध उदयः अष्टविधा सत्ता, यत उपशान्तमोहः कषायोदयाभावाद् न ज्ञानावरणीयादि बध्नाति, किन्तु वेदनीयमेकं केवलम्, ततस्तत्रैकविध एव बन्धो भवति, मोहनीय' स्य चोपशान्तत्वेनोदयाभावाद् उदयः सप्तविधः । क्षीणमोहस्य एकविधो बन्धः सप्तविध उदयः सप्तविधा सत्ता, अत्र मोहनीयं क्षीणत्वाद् उदये सत्तायां च न प्राप्यते, ततः सप्तविध उदयः सप्तविधा सत्ता । सयोगिकेच लिनि एकविध धतुर्विध उदयश्चतुर्विधा सत्ता, केवली हि चतसृणामपि घातिप्रकृतीनां क्षयेण भवति, ततस्तस्य चतुर्विध एवोदयश्चतुर्विधैव सत्ता । अयोगिकेवलिनो बन्धो न भवति योगाभावात्, तततुर्विध उदयश्चतुर्विधा सत्ता । तथा षट्सु गुणसंज्ञितेषु 'गुणस्थानकेषु' मिथ्याहष्टि-सासादनाऽविरतसम्यग्दृष्टि- देशविरत प्रमत्ता ऽप्रमत्तरूपेषु प्रत्येकं बन्ध-उदय- सत्कर्मणां द्वौ द्वौ विकल्पौ भवतः, तद्यथा - अष्टविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता. एप विकल्प आयुबन्धकाले, एतेषां ह्यायुर्वन्धयोग्याध्यवसायस्थानसम्भवाद् आयुर्वन्ध उपपद्यते । तथा सप्तविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुर्वन्धकालं मुक्त्वा शेषकालं सर्वदा लभ्यते ।। ५ ।। तदेवं मूलप्रकृतीरधिकृत्य बन्ध- उदय-सत्प्रकृतिस्थानानां परस्परं संवेध उक्तः स्वामित्वं च । मम्प्रति उत्तर प्रकृतीरधिकृत्य बन्ध-उदय-सत्प्रकृतिस्थानानां परस्परं संवेधः प्रोच्यते ४ १ सं० १ त० यस्योप' ॥ २ छा० मुद्रि० व च सत्ता || ३ सं० 'त्य प्रोच्य || ४ इत उर्ध्वम्- 'पंच नव दुति अट्ठावीसा चउरो तहेव बायाला । दुनि य पंच य भणिया, पडीओ आणुपुच्ची || " इत्यष्टकर्मोत्तर प्रकृतिसूचकं गाथासूत्रं अस्मत्तार्श्ववर्तित्रिपाठपुस्तका दर्शवेत्र दृश्यते, चिरत्नताडपत्रीय कागदोपरिलिखित सूत्रगाथाडीका नित्र (शूढ) पुस्तकादर्शषु तु नोपलभ्यते । यदत्र
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy