SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ॥ अथ प्रशस्तिः ॥ विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । शतमखशतकप्रणतः, स श्रीवीरो जिनो जयतु ॥ कुन्दोज्ज्वलकीर्तिभरः, सुरभीकृतसकलविष्टपाभोगः । लब्धिशतसिन्धुजलधिः, श्रीगौतमगणधरः पातु ॥ तदनु सुधर्मस्वामी, जम्बू-प्रभवादयो मुनिवरिष्ठाः । श्रुतजलनिधिपारीणाः, भूयांसः श्रेयसे सन्तु ॥ क्रमात् प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्र, श्रीजगच्चन्द्रसूरयः ॥ जगज्जनितबोधानां, तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः ॥ स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रमूरिणा । स्वोपज्ञशतकटीका, सुबोधेयं विनिर्ममे ।। विबुधवरधर्मकोर्ति-श्रीविद्यानन्दसूरिमुख्यबुधैः । स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ यद् गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे। विद्वद्भिस्तत्वज्ञैः, प्रसादमाधाय तच्छोध्यम् ॥ स्वोपज्ञशतकटीका, कृत्वेमां यन्मयाऽर्जितं सुकृतम् । ध्रुवबन्धादिविमुक्तः, समस्तु सर्वोऽपि तेन जनः || * समाप्तोऽयं स्वोपज्ञटीकोपेतः शतकनामा पञ्चमः कर्मग्रन्थः।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy