SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः। १३९ बन्धचिच्याद् उदयवैचिच्याद्वाऽसङ्ख्येयगुणभेदत्वम् । एवं नानाजीवानाश्रित्य मतिज्ञानावरणादीनां शेषाणामप्यावरणानां तथाऽन्यासामपि सर्वासां मूलप्रकृतीनामुत्तरप्रकृतीनां च क्षेत्रादिभेदेन पन्धचिच्याद् उदयवैचिच्याद्वाऽसङ्ख्याता भेदाः सम्पद्यन्ते इति । उक्तं च 'जम्हा उ ओहिविसओ, उक्कोसो सव्यबहुयसिहिसूई । जत्तियमित्तं फुसई, तत्तियमित्तप्पएससमो ॥ तत्तारतम्मभेया, जेण बहुँ हुँति आवरणजणिया । तेणासंखगुणत्तं, पयडीणं जोगओ जाणे ॥ इति । चतसृणामानुपूर्वीणां बन्ध-उदयवैचित्र्येणासङ्ख्याता भेदाः, ते चलोकस्यासङ्ख्येयभागवर्तिप्रदेशराशितुल्या इति वृहच्छतकचूर्णिकारोक्तो विशेषः । ननु जीवानामनन्तत्वात् तेषां बन्ध-उदयवैचित्र्येणानन्ता अपि प्रकृतिभेदाः कस्माद् न भवन्ति ? नैतदेवम् , सदृशानां बन्ध-उदयानामेकत्वेन विवक्षितत्वाद् विसदृशास्त्वेतावन्त एव तद्भेदा भवन्ति, ते च भेदाः प्रकृतिभेदत्वात् प्रकृतय इत्युच्यन्ते । ततश्च योगस्थानेभ्योऽसङ्ख्यातगुणाः प्रकृतयः यत एकैकस्मिन् योगस्थाने वर्तमान नाजीवः कालभेदादेकजीवेन बा सर्वा अप्येताः प्रकृतयो बध्यन्त इति । तथा तेभ्यः प्रकृतिभेदेभ्यः ‘स्थितिभेदाः' स्थितिविशेषा अन्तमुहूर्त-समयाधिकान्तमुहूर्तद्विसमयाधिकान्तमुहूर्त-त्रिसमयाधिकान्तमुहूर्तादिलक्षणा असङ्ख्यातगुणा भवन्ति, एकैकस्याः प्रकतेरसङ्ख्यातैः स्थितिविशेषेर्बध्यमानत्वात् । एकमेव हि प्रकृतिभेदं कश्चिज्जीवोऽन्येन स्थितिविशेषेण बध्नाति, स एव च तं कदाचिदन्येन कदाचिदन्यतरेण कदाचिदन्यतमेनेत्येवमेकं प्रकृतिभेदमेक च जीवमाश्रित्य असङ्ख्याताः स्थितिभेदा भवन्ति, किं पुनः सर्वप्रकृतीः सर्वजीवान आश्रित्य प्रकृतिभेदेभ्यः स्थितिभेदानामसङ्ख्यातगुणत्वम् ? इति, अतः प्रकृतिभेदेभ्यः स्थितिभेदा असङ्ख्यातगुणा.भवन्तीति । - तथा स्थितिभेदेभ्यः सकाशात् 'स्थितिबन्धाध्यवसायाः 'पदेकदेशे पदसमुदायोपचारात्" स्थितिबन्धाध्यवसायस्थानानि असङ्ख्यातगुणानि । तत्र स्थान-स्थितिः कर्मणोऽवस्थानं, तस्या बन्धः स्थितिबन्धः, अध्यवसानानि अध्यवसायाः, ते चेह कषाय जनिता जीवपरिणामविशेषाः, तिष्ठन्ति जीवा एध्विति स्थानानि, अध्यवसाया एवं स्थानानि अध्यवसायस्थानानि, स्थितिवन्धस्य १ यस्मात्त्ववधिविषय उत्कृष्टः सर्वबहुकशिखिसूची । यावन्मानं स्पृशति तावन्मात्रप्रदेशसमः ॥ तत्तारतम्यभेदा येन बहवो भवन्त्यावरणनिताः । तेनासंख्यगुणत्वं प्रकृतीनां योगतो जानीहि ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy