SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ।। अहम् ॥ ॥ श्री शंखेश्वर पार्श्वनाथाय नमः ।। पूज्यश्रीदेवेन्द्रसूरिविरचित-स्वोपज्ञ-टीकोपेतः कर्मविपाकनामा प्रथम: कर्मग्रन्थः । Railroin ॥ नमः श्रीप्रवचनाय ॥ दिनेशवयानवरप्रतापरनन्तकालप्रचितं समन्तात् ।। योऽशोषयत् कर्मविपाकपङ्क, देवो मुदे वोऽस्तु स वर्धमानः ॥१॥ ज्ञानादिगुणगुरूणां, धर्मगुरूणां प्रणम्य पदकमलम् । कर्मविपाके विवृति, स्मृतिबीजविवृद्धये विदधे ॥२॥ तत्राऽऽदावेवाभीष्टदेवतानुत्यादिप्रतिपादिकामिमा गाथामाह सिरिवीरजिणं वंदिय, कम्मविवागं समासओ वुच्छं । कोरइ जिएण हेऊहिँ जेण तो भण्णए कम्मं ॥१॥ श्रिया-सकलत्रिभुवनजनमनश्चमत्कारिमनोहारिपरमार्हन्त्यमहामहिमाविस्तारि "अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ।।" इति स्पष्टाष्टप्रातिहार्यशोभया चतुस्त्रिंशदतिशयविभृत्या वा समन्वितो वीरः श्रीवीरः, स चासो रागद्वेपमोहप्रभृतिवेरिवारपगजयाद् जिनश्च श्रीवीरजिनस्तं श्रीवीरजिनं-श्रीमद्धमानस्वामिन 'वन्दित्वा' विशुद्धमानसप्रणिधानसमन्वितेन वाग्योगेन स्तुत्या, काययोगेन च प्रणम्य, “वदुङ् स्तुन्यभिवादनयोः” इति वचनात् । एतेन मङ्गलार्थमभीष्टदेवतायाः स्तुतिरुक्ता । सत्वाप्रत्ययस्य चौतरक्रियासापेक्षत्वादुत्तरक्रियामाह--'कर्मविपाकं वक्ष्ये' तत्र कर्मणां-ज्ञानावरगादीनां विपाकः-अनुभवः कर्मविपाकस्तं कर्मविपाक 'वक्ष्ये' अभिधास्ये । अनेनाभिधेय. माह । कथम् ? इत्याह- समासतः' सझेपेण, न विस्तरेण, दुष्षमानुभावापचीयमानमेधाऽऽयुर्वलादिगुणानामेदंयुगीनजनानां विस्तराभिधाने सत्युपकारासम्भवात् , तदुपकारार्थ चेष शास्त्रारम्भप्रयासः एतेन सङ्क्षिप्तरुचिसत्त्वानाश्रित्य प्रयोजनमाचष्टे । सम्बन्धस्त्वर्थापत्तिगम्यः, स
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy