________________
८१]
शतकनामा पञ्चमः कर्मग्रन्थः। पिंडपगईसु बज्झतिगाण वन्नरसगंधफासाणं ।
सव्वासिं संघाए, तणुम्मि य तिगे चउक्के वा ।। ( कर्मप्र० गा० २७) । अस्या अक्षरार्थगमनिका-पिण्डप्रकृतयो नामप्रकृतयः । यदुक्तं कर्मप्रकृतिचूर्णीपिंडपगईओ नामपगईओ त्ति । तासु मध्ये बध्यमानानामन्यतमगति-जाति-शरीर-बन्धन-संघात'न संहनन-संस्थाना-ऽङ्गोपाङ्गाऽऽनुपूर्वीणां वर्ण-गन्ध-रस-स्पर्शा-ऽगुरुलघु-पराघात उपघात उच्छवास-निर्माण-तीर्थकराणां आतपउद्योत-प्रशस्ता--प्रशस्तविहायोगति त्रस-स्थावर-बादर--सूक्ष्म-पर्याप्ता-ऽपर्याप्त- प्रत्येक साधारणस्थिरा-ऽस्थिर-शुभा-ऽशुभ सुभग-दुर्भग-सुस्वर-दुःस्वरा-ऽऽदेया-ऽनादेय-यश कीर्ति-अयशःकीर्त्यन्यतराणां च मूलभागो विभज्य समर्पणीयः । अत्रैव विशेषमाह-वर्णेत्यादि । वर्ण-गन्ध-रस-स्प
र्शानां प्रत्येकं यद् भागलब्धं दलिकमायाति तत् सर्वेभ्यस्तेषामेवावान्तरभेदेभ्यो विभज्य विभज्य दीयते । तथाहि--वर्णनाम्नो यद् भागलब्धं दलिकं तत् पञ्चधा कृत्वा शुक्लादिभ्योऽवान्तरभेदेभ्यो विभज्य विभज्य प्रदीयते, एवं गन्ध-रस-स्पर्शानामपि यस्य यावन्तो भेदास्तस्य सम्बन्धिनो भागस्य तति भागाः कृत्वा तावद्भयोऽवान्तरभेदेभ्यो दातव्याः । तथा सङ्घाते तनौ च प्रत्येक यद् भागलब्धं दलिकमायाति तत् त्रिधा चतुर्था वा कृत्वा त्रिभ्यश्चतुभ्यो वा दीयते । तत्रौदारिक-तैजस-कार्मणानि वैक्रिय-तेजस-कार्मणानि वा त्रीणि शरीराणि सङ्घातान् वा युगपदध्नता त्रिधा क्रियते, क्रिया-ऽऽहारक-तैजस-कार्मणरूपाणि चत्वारि शरीराणि सङ्घातान वा बध्नता चतुर्धा क्रियते । “सत्तेक्कार विगप्पा बंधणनामाण" (कर्मप्र० गा० २८) बन्धननाम्नां भागलब्धं यद् दलिकमायाति तस्य सप्त विकल्पाः-सप्त भेदाः शरीरत्रये, एकादश वा विकल्पाः शरीरचतुष्टये क्रियन्ते । तत्रौदारिकौदारिक १ औदारिकतैजस २ औदारिककार्मण ३ औदारिकतैजसकार्मण४ तैजसतैजस ५ तैजसकार्मण ६ कार्मण'कार्मण ७ लक्षणबन्धनानि बध्नता सप्त, वैक्रियचतुष्काऽऽहारकचतुष्क-तैजसत्रिकलक्षणान्येकादश बन्धनानि बध्नता एकादश, अवशेषाणां च प्रकृतीनां यद् भागलब्धं दलिकमायाति तद् न भूयो विभज्यते, तासां युगपदवान्तरद्विव्यादिभेदबन्धाभावात् , तेन तासां तदेव परिपूर्ण दलिकं भवतीति । गोत्रस्य तु यद् भागागतं द्रव्यं तद् एकस्या एव बध्यमानप्रकृतेः सर्व भवति, यद् गोत्रस्यैकदा उच्चैगोत्रलक्षणा नीचैर्गोवलक्षणा वैकैव प्रकृतिवंध्यते । अन्तरायभागलब्धं तु द्रव्यं दानान्तरायादिप्रकृतिपञ्चकतया परिणमति, यत एताः पश्चापि ध्रुवबन्धित्वात् सर्वदेव बध्यन्त इति ।
१ सं० १-२ छा० त० म० ०त-संहन० ॥ २ अस्मत्पावधर्तिषु समेष्वप्यादर्शषु एतादृश एव पाठः, परं हमप्रकृतिटीकायां तु-०कार्मण -रूपाणि वैक्रियचतुष्क-तैजसत्रिकरूपाणि वा सप्त बन्धनानि बनता सप्त । वैक्रियच० इत्येवंरूपः पाठो दृश्यते ।। 14